________________
१९८
राजप्रश्नीयउपाङ्गसूत्रम् - ३
यस्य स धनमसृणस्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य - मनुषस्य ये प्रवराः - प्रलम्बा भुजाः - बाहवस्तैरग्राह्यः अपरिसेयोऽनेकनरप्रवरभुजाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः ।
तथा कुसुमभरेण - पुष्पसम्भारेण सम्-ईषदवनन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धंति खंधपित्तलमि' ति वचनात् विशाला - विस्तीर्णा शालाः - शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरणीं भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति समू, कर्म्मकर्तुत्वात्कर्त्तरि क्तप्रत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः - आश्रयन्त उड्डीयमानंतत्प्रत्यासन्नामाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमयितनिलीयमानोड्यमानसश्रीकः, तथा नानाजीतायनां शकुनगणानां यानि मिथुनानि - स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि, शकुनगणानां हि स्वेच्छया क्रडतां प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते' त्युक्तं ।,
तेषां यः शब्दो - ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्णसुखप्रलप्तशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा - वल्वजादयाः तैर्विशुद्धं - रहितं वृक्षस्य -सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामुलमिदं प्रशाखामुलमिदमित्यादि, ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षत्रमूलो, यश्चैवंविधः स द्रष्टृणां चित्तसन्योपाय भवति, तत आह प्रासादीयः - प्रसादाय - चित्तसन्तोषाय हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो- द्रष्टुं योग्यः, कम्मादिन्याह'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कम्यचिद्विरागहेतू रूपम् - आकारो यस्यासावभिरूपः, एवंरूपोऽपि कुतः ।
इत्याह-प्रतिरूपः- प्रतिविशिष्टं सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः ।
‘सेणं असोगवरपायवे' इत्यादि 'जाव नंदिरुक्खेहिं' इत्यत्र यावच्छब्दकरणात्, 'लउएहिं छत्तोवगेहिं सिरीसेहिं सत्तवण्णेह लोद्धेहिं दधिवन्नेहिं चंदणेहिं अज्झुनेहिं नीवेहिं कयंबेहिं फणसेहिं दाडिमेहिं सालेहिं तमालेहिं पियालेहिं पियंगूहिं रायरुक्खेहिं नंदीरुक्खेहिं' इति परिग्रहः, एते च लवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गुलरजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'ते णं तिलगा जाव नंदिरूक्खा कुसुविकुसे' त्यादि ते तिलका यावन्नंदिवृक्षाः कुशविकुसविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत्, 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषमिति मूलवन्तः, कन्त एषामस्तीति कन्दवतन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो पुप्फमंतो फलमंतो वीयमंतो अनुपुव्विसुजायरुइलवट्टभावपरिणया एगखंधा अनेगसाहप्पसाहविडिमा अनेगनरवामसुप्पसारिय अगिज्झधणविपुलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईइपत्ता अनईणपत्ता निव्वुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयनवतरुणपत्तपल्लवा कोमलउज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा ।
निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International