________________
१९२
औपपातिकउपाङ्गसूत्रम्-७३
सकलेन्द्रियार्थावाप्तयाऽशेषैौत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भावात् सुखार्थभाव इति ॥ इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥
मू. (७४)
वृ. 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तैः, यतश्चैवमतः 'शाश्वतं ' 'सर्वकालभावि' 'अव्याबाधं' व्याबाधावर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि - अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥ सिद्धत्तिय बुद्धत्ति य पारगयत्ति य परंपरगयत्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ।।
मू. (७५)
वृ. साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह - 'सिद्धत्ति य' तगाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धाइति केवलज्ञानेन विश्वावबोधात्, पारगत इति च भवार्णवपारगमनात्, परंपरगयत्ति- पुण्यबीजसम्यकत्वज्ञानचरणक्रमप्राप्तयुपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्ततवात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति ।
मू. (७६)
मू. (७७)
वृ. 'निच्छिन्न' गाहा 'अतुल' गाहा व्यक्तार्थे एवेति ।
119 11
॥२॥
॥३॥
निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्कं अणुहोति सासंयं सिद्धा ।। अतुलसुहसागरगया अव्वाबाहं अनोवमं पत्ता । सव्वमनागयमद्धं चिट्टंती सुही सुहं पत्ता ॥
- औपपातिकं पदवर्णनं समाप्तम्चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः । कुसुमोपमस्य सूरेः गुणसौरभभरितभवनस्य ॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्नस्य ।
शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः ॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता औपपातिकउपाङ्गसूत्रस्य अभयदेवसूरि विरचिता- द्रोणाचार्यशोधिता टीका परिसमाप्ता ।
१२ | प्रथमम् उपाङ्गम् औपपातिकं समाप्तम्
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org