SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १९३ नमो नमो निम्मल सणस्स पंचम गणघर श्री सुधर्मास्वामिने नमः १३ राजप्रश्नीय-उपाङ्गसूत्रं । स टी कं द्वीतीयं उपाङ्ग सूत्रम् (मूलम् + श्री मलयगिरि आचार्य चिरचिता वृत्तिः) ॥१॥ प्रणमत वीरजिनेश्वरचरणयुगंपरपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥ ॥२॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ॥ अथकस्मादिदमुपाङ्गंराजप्रश्नीयाभिधानमिति?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान्जीवविषयानप्रश्नानकार्षीत्, यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान्, यच्च व्याकरणसम्यक्परिणनिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतःप्रथमेसौधर्मनाम्निनाकलोके विमानामाधिपत्येनाधितिष्ठत्, यथाच विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानायोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाधितिष्ठत्, यथाच विमानाधिपत्यप्राप्तयनन्तरंसम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोकय भक्त्यतिशयपरीतचेताः सवेस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाट्यमनरीनृत्यत्। नर्तित्वाच यथाऽऽपुष्कंदिविसुखमनुभूयततश्च्युत्वायत्रसमागत्य मुक्तिपदभवापस्याति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इति-राजप्रश्नेषु भवं राजप्रनीयं । अथ कस्याङ्गस्येदमुषाङ्गं?, उच्यते, सूत्रकृताङ्गस्य कथं तदुपाङ्गतेति चेत्, उच्यते, सूत्रकृते ह्यङ्गे अशीत्यधिकंशतं क्रियावादिनां, चतुरशीतिरक्रियावादिनां, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशद्वैनयिकानां, सर्वसङ्घयया त्रीणि शतानि त्रिषष्ट्यधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः स्थाप्यते, उक्तं च नन्द्यध्ययने-१“सुयंगडेणं असीयसयं किरिआवाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अन्नाणियवाईणंबत्तीसा वेणइयवाईणं तिण्हं तेवढाणं पासंडियसयाणं नियूहं किच्चा ससमए ठाविजई त्ति, प्रदेशी च राजा पूर्वमक्रिया वादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलम्य जीवविषयान्प्रश्नानकरोत्, केशिकुमारश्रमणश्चगणधारी सूत्रकृ ताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षित् । ततोयान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानिव्याकृतानितान्येवात्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy