________________
मूलं-७१
अन्ये पुनरिमां गाथामेवं व्याख्यान्ति - सिद्धसुखपर्यायराशिः नभः प्रदेशाग्रगुणितनभः प्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां सर्वाद्धापिण्डितः - सर्वसमयसम्बन्धी सङ्कलितः सन् सचानन्तैः अनन्तशोइत्यर्थः, वर्ग. - वर्गमूलैर्भक्तः - अपवर्तितः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टः सहस्रणि पञ्च शतानि षट्त्रिंशच्चेति (६५५३६), स च वर्गेणापवर्तितः सन् जाते द्वे शते षट्पञ्चाशदधिके (२५६) सोऽपि स्ववर्गापवर्तितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येव मतिलघूकृतोऽपि सर्वाकाशेन मायाद्, एतदेवाह'सव्वागासे न माएज' त्ति
अथ सिद्धसुखस्यानुपमतां ध्यन्तेनाह- 'जह' गाहा, पूर्वार्धं व्यक्तं, 'नचएइ'त्ति न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह- उपमायां त्वत्र नगरुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्
119 11
॥२॥
॥३॥
11811
म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥ मायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥ ततः प्रासादश्रृङ्गेषु रम्येषु काननेषु च । वृतो विलासिनीसार्थैर्भुङ्कते भोगसुखान्यसौ । अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स, मनोहरम् ॥ जातोत्कण्ठो दढं जातोऽरण्यवासगमं प्रति । • विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः ॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? । स स्वभावान् पुरः सर्वान्, जानात्येव हि केवलम् ॥
॥५॥
॥६॥
॥७॥
112 11
न शशाक तकां तेषां गदितुं स कृतोद्यमः । वने वने चराणां हि नास्ति सिद्धोपमा यतः (तथा) | इय सिद्धाणं सोक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं ।।
मू. (७२)
वृ. अथ दाष्टन्तिकमाह-‘इय' गाहा, 'इति' एवम् - अरण्ये नगरगुणा इवेत्यर्थः, सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह यतो नास्ति तस्यैौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह- ‘एत्तो’त्ति आर्षत्वादस्य - सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम् - उपमानम् 'इदं' वक्ष्यमाणं श्रृणुत वक्ष्ये इति ॥
पू. (७३)
जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तण्हाछुहाविमुक्को अच्छेजा जहा अमियतित्तो ॥
१९१
वृ. 'जह' गाहा 'यथे' त्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेषं व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तया औत्सुक्यनिवृत्त्या सुखप्रदर्शनं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International