________________
१९०
मू. (६९)
जं देवाणं सोक्खं सव्वद्धापिंडियं अनंतगुणं । न य पावइ मुत्तिसुहं नंताहिं वग्गवग्गूहिं ॥
वृ. कस्मादेवमित्याह-‘जं देवाणं' गाहा, 'यो' यस्माद्देवानाम् - अनुत्तरसुरानन्तानां 'सौख्यं त्रिकालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं - गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणइनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह - अनन्ताभिरपि ‘वर्गवर्गाभिः’ वर्गवर्गैर्वर्गितमपि, तत्र तद्गुणो वर्णो यथाद्वयोर्गर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गितमपि । चूर्णिकारस्त्वाह- अनन्तैरपि वर्गवर्गः - खण्डखण्डैः खण्डितं सिदअधसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् ॥ भू. (७०)
सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हवेज्जा । सोऽनंतवग्गभइओ सव्वगासे न माएजा ॥
औपपातिकउपाङ्गसूत्रम् - ६८
वृ. सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह - 'सिद्धस्स ' गाहा, 'सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः ' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह-, सोऽनन्तवर्गभक्तो - अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, ‘सर्वाकाशे’लोकालोकरूपे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाहादरूपं सुखं गृह्यते,
ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्धया निरतिशयनिष्ठांन गतः, ततश्चासावत्यन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूपः स्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये तारतम्येनाह्लादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं- 'सव्वागासे न माएजत्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति ।
मू. (७१) जह नाम कोई मिच्छो नगरगुणे बहुविहे वियाणंतो ।
न चएइ परिकहेउं उवमाए तहिं असंतीए ॥
वृ. अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:- य एते सुखभेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थान- वर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहस्र समयराशिस्तु शतं सहस्रं च शतेन गुणितं जातं लक्षं गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनारअथं, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहस्रमेव, अतः पूज्यैरुक्तं 'समीभूत एवे 'ति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः - यत्र किलानन्तराशिना गुणिते परि सति अनन्तवर्गे णानन्तानन्तकरूपेणातीव महास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिर्महानिति बुद्धिजननार्थं शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org