________________
१८६
औपपातिकउपाङ्गसूत्रम्-५५ ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति । ___गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, ‘से जे इमे गामागर जाव सन्निवेसेसु मणुयाहवंति-सव्वकामविरयाजावअट्ठकम्मपयडीओएखवइत्ता उपिंलोयग्गपइट्ठाणाहवंतीति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादशास्ते भवन्ति तदर्शयितुमाह-'ते णं तत्थ सिद्धा हवंति'ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः तत्र' लोकाग्रेनिष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत॥१॥
"रागादिवासनामुक्तं, चित्तमेवनिरामयम् । सदाऽनियतदेशस्थ, सिद्ध इत्यभिधीयते ॥
-यच्चापरे मन्यन्ते॥१॥ ___ “गुणसत्त्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः।
मुक्ताः सर्वत्र तिष्ठन्ति, व्योववत्तापवर्जिताः॥" -तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत॥१॥ “अणिमाद्यष्टविद्यं प्राप्यैश्वर्यं कृतिनः सदा।
मोदन्ते निवृतात्मानस्तीर्णाः परमदुस्तरम् ॥" इति तदपाकरणायाह-'अशरीरा' अविद्यमानपञ्चप्रकाराशरीराः, तथा 'जीवधन त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवधना इति, 'दंसणनाणोवउत्त'त्ति ज्ञानं-साकारं दर्शनम् अनाकारं तयोः क्रमेणोपयुक्ता येते तथा, 'निट्ठियट्ठ'त्ति निष्ठितार्थाःसमाप्तसमस्तप्रयोजनाः 'निरयेण त्ति निरेजनाः-निश्चलाः 'नीरय तिनीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विगताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धप्रकर्षमुपगताः ‘सासयमनागयद्धं कालं चिट्ठति'शाश्वतीम्-अविनश्वरी सिद्धकत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्ती'ति जन्मना-कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा,
जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययघध्रौव्ययुक्तत्वात्सद्भावस्येति, ‘जहन्नेणंसत्तरयणीए'त्तिसप्तहस्तेउच्चत्वेसिध्यन्तिमहावीरवत्, 'उक्कोसेणं पंचधणुस्सए'त्ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण नव्यभिचारोन वामरुदेव्यासातिरेकपञ्चधनुःशतप्रमाणयेति, साइरेगट्ठवासाउए'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुवकोडाउए'त्ति पूर्वकोट्यायुर्नरः पूर्वकोट्या अन्ते सिध्यतीति न परतः।
तेणंतत्थ सिद्धा भवंती'तिप्राक्तनवचनाद्यद्यपि लोकाग्रंसिद्धानांस्थानमित्यवसीयते तथापिमुग्धविनेयस्य कल्पितविधिधझलोकाग्रनिरासतोनिरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-'अस्थिण मित्यादिव्यक्तं, नवरंयदिदंरत्नप्रभा (या) अधस्तदेवलोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं-नायमर्थः समर्थ इति, एवं सर्वत्र, ‘से कहिं खाइणं भंते!' त्तिइत्यत्रसेत्ति-ततः कहिँति-कवदेशेखाइणंति-देशभाषया वाक्यालङ्कारे बहुसमे'त्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अबाहाए'त्ति अबाधया–अन्तरेण 'ईसिंपब्भार'त्ति ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईषत्याग्भारा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org