________________
मूलं-५५
119 11
"हस्सक्खराई मज्झेणं जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ||"
शैलेशो- मरुस्तस्येवस्थिरतासाम्याद्याऽवस्था सा शैलेशी अथवा शीलेश:सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, ततः 'पुव्वरइयगुणसेढीयंच णं' ति पूर्व- शैलेश्यावस्थायाः प्राग् रचिता गुणश्रेणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं - सामान्यतः किल कर्म बकल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते चैवं
'कम्मं 'ति वेदनीयादिकं भवोपग्राहि 'तीसे सेलेसिमद्धाए 'त्ति तस्यां शैलेशी अद्धायांशैलेशीकाले क्षपयनिति यो गः, एतदेव विशेषेणाह - 'असंखेज्जाहिं गुणसेढीहिं'न्ति असङ्ख्या ताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्यातागुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम्, असङ्ख्यातसमयैरिति हृदयम्, 'अनंते कम्मंसे खवयंतो' त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् कर्मांशान् भवोपग्राहिकर्मभेदान् क्षपयन्- निर्जरयन् 'वेयणिज्जाउयणामगोए 'त्ति वेदनीयं सातादि आयुः - मनुष्यायुष्कं नाम - मनुष्यगत्यादि गोत्रम् - उच्चैर्गोत्रम् 'इच्छेते' त्ति इत्येतान् 'चत्तारि 'त्ति चतुरः 'कम्मंसे 'त्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ' त्ति यौगपद्येन निर्जरयतीति । एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं यदुत
11911
“तदसंखेज्जगुणाए सेढीए विरयं पुरा कम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥ सव्वं खवेइ तं पुन निल्लेवं किंचुदुवरिमे समए । किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं ॥ मनुयगइजाइतसबायरं च पजत्तसुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ॥ संभवओ जिननामं नरानुपुव्वी य चरिमसमयंमि । सेसा जिनसंताओ दुचरिमसमयंमि निट्ठति ॥” त्ति,
'सव्वाहिं विप्पयहणाहिं' ति सर्वाभिः - अशेषाभिः विशेषेण - विविधं प्रकर्षतो हानयः - त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ? - सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त' त्ति विशेषेण प्रहाय - परित्यज्य 'उज्जूसेढिपडिवन्ने' त्ति ऋजुः - अवक्रा श्रेणिः- आकाशप्रदेशपङ्कितस्तां ऋजुश्रेणि प्रतिपन्नः - आश्रितः 'अफुसमाणगई 'त्ति अस्पृशन्ती - सिद्धन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशङ्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः,
॥२॥
१८५
॥३॥
॥ ४ ॥
इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं समएणं 'ति, कुत इत्याह- 'अविग्गहेणं'ति अविग्रहेण - वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उड्डुं गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते 'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org