________________
मूलं-३४
१५१ 'केवले' अद्वितीयं केवलिप्रतीतं वा अनन्तं वा-अनन्तार्थविषयत्वात्।
'पडिपुन्ने प्रतिपूर्णमल्पग्रन्थत्वादिभि प्रवचनगुणैः “संशुद्धे' कषादिभि सुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् 'नेयाउए' नैयायिकं-न्यायानुगतं प्रमाणाबाधितमित्यर्थ, ‘सल्लकत्तणे' मायादिशल्यकर्तनं, तद्भावितानां हिभावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे मुक्तेः-सकलकर्मवियोगस्यहेतुःअथवा मुक्ति-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'निजाणमग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः ।
___ 'निव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्स्यपन्थाः अवितहं सद्भूतार्थं अविसंधि' अविरुद्धपूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवासर्वाणिदुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्ग-शुद्धिर्यत्र तत्तथा।
'अत एव ‘इहठिया जीवा सिझंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति 'बुझंति' केवलज्ञानप्राप्तया 'मुच्चंति' भवोपग्राहिकर्माशापगमात् परिनिब्वायंति' कर्मकृतसकलसन्तापविरहात्, किमुक्तं भवतीत्यत आह-सव्वदुक्खाणमंतं करेंति'
मू. (३४-वर्तत) एगचा पुण एगेभयंतारोपुव्वकम्मावसेसेणं अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति, महड्डीएसुजाव महासुक्खेसु दूरंगइएसुचिरहिईएसु, तेणं तत्थ देवा भवंति महड्डीएजावचिरहिईआहारविराइयवच्छाजाव पभासमाणाकप्पोवगागतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खइ एवं खलु चउहि ठाणेहिं जीवा नेरइअत्ताए कम्मं पकरंति। _ -नेरइअत्ताए कम्मं पकरेत्ता नेरइसु उववजंति, तंजहामहारंभयाए महापरिगहयाए पंचिंदियवहेणं कुणिमाहारेणं।
एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए निअडिल्लयाए अलिअवयणेणं उक्कचणयाएवंचणयाए, मणुस्सेसुपगतिभईयाएपगतिविनीतताए साणुक्कोसयाएअमच्छरियताए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए बालतवोकम्मेणं, तमाइक्खइ।
वृ. 'एगच्चा' एकार्चा-एका अर्चा-मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो'त्ति भदन्ताः-कल्याणिनः भक्तारोवा-नैर्ग्रन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अन्नयरेसु देवलोएसुत्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महड्डिएसु' इह यावत्करणादिदं
श्यं-'महज्जुइएसु महाबलेसुमहायसेसुमहानुभागेसुत्ति, व्याख्या च प्राग्वत्, 'दूरंगइएसुत्ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं श्यं-'कडयतुडियर्थभियभुया अंगयकुंडलमठ्ठगंडयलकण्णपीढधारी विचित्तहत्थाभरणा।
दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चासुरवर्णकवदश्या, 'कप्पोवग'त्ति कल्पोपगा-देवलोकजाः ‘आगमेसिभद्दत्तिआगमिष्यद्अनागतकालभाविभद्रं-कल्याणं निर्वाणलक्षणंयेषांतेतथा, इह यावत्करणादिदंश्यं–'पासाईया दरिसणिज्जा अभिरूव पडिरूव'त्ति व्याख्या प्राग्वदेवेति, निर्ग्रन्थप्रवचनफलवक्तव्यतां निगमयन्नाह-'तमाइक्खइत्ति तत्प्रवचनफलमिति।
अथ प्रकारान्तरेण धर्ममाह-‘एवं खल्वित्यादि बालतवोकम्मेण मित्येतदन्तं, व्यक्तमेव, नवरं ‘एव मिति वक्ष्यमाणेन प्रकारेण, खलुक्यालङ्कारे, 'कुणिमाहारेणं ति कुणिमं-मांसं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org