________________
१५०
औपपातिकउपाङ्गसूत्रम्-३४
अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति
- रागादिमत्वात्पुरुषाणाम्, अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थं, तत्र सिद्धि - ईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तुतद्वन्तः परिनिर्वाणं - कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्तेप्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अत्थि पाणाइवाए' इत्याद्युक्तं ।
केवलमत्र सूत्रे बन्धमोक्षहेतुरिति वाक्यशेषाध्श्यः, इह च यावत्करणादिदं दृश्यं - 'पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे' त्ति तत्र पेज्जेत्ति - प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमात्रं 'दोसे' त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहोराटि अभ्याख्यानम् - असद्दोषारोपणं पैशुन्यं-प्रच्छन्नं सद्दोषाविष्करणं परपरिवादो - विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरइ' त्ति अरति - अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रति-विषयेषु मोहनीयाच्चित्ताभिरति अरतिरति ।
'मायामोसि' त्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादंसणसल्ले' त्ति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यं ।
मू. (३४- वर्तते) अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिन्नादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादंसणसल्लविवेगे सव्वं अस्थिभावं अत्थित्ति वयति, सव्वं नत्थिभावं नत्थित्ति वयति
- सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुन्नपावे, पच्चायंति जीवा, सफले कल्लाणपावए ।
धम्ममाइक्खइ-इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे केवलए संसुद्धे पडिपुन्ने नेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे निजाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहठ्ठआ जीवा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति ।
वृ. 'पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थं, किं बहुना ? - 'सव्वमत्थिभावं' ति अस्तीतिक्रयायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा कम्म' त्ति सुचरितानि तपःप्रभृतीनि कर्माणि-क्रियाः 'सुचिण्णफल' त्ति सुचरितं - सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थ, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च 'फुसइ पुन्नपावे' बघ्नाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः ‘पञ्च्चायंति’त्ति जीवाः प्रत्याजायन्ते - उत्पद्यन्ते, न पुनः 'भस्मीभूतस्य शान्तस्य, पुनरागमनं कुत ?' इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् फलवच्छुभाशुभं कर्मेति । प्रकारान्तरेण भगवतो धर्मप्ररूपणां दर्शयन्नाह - 'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् 'इदमेव' प्रत्यक्षं 'निग्गंथे पावयणे' नैर्ग्रन्थं प्रवचनं - जिनशासनं 'सच्चे' सद्भ्यो हितम् 'अनुत्तरे' नेतः प्रधानतरमन्यदस्तीत्यर्थः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org