________________
मूलं-३४
१४९ सर्वाक्ष- रामां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाताः-संयोगाः सन्ति यस्यां सासर्वाक्षर-सन्निपातिका तया, 'सरस्सइए' वाण्या जोयणणीहारिणा' योजनातिक्रमिणास्वरेण
-'अद्धमागहाए भासाए'त्ति रसोर्लसौमागध्या'मित्यादियन्मागधभाषालक्षणंतेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते ।
मू. (३४-वर्तते) तेसिं सव्वेसिं आरियमनारियाणं अगिलाए धम्ममाइक्खइ, साऽवियणं अद्धमागहा भासा तेसिं सव्वेसिं आरियमनारियाणंअप्पणोसभासाए परिणामेणंपरिणमइ, तंजहा_ -अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुन्ने पावे आसवे संवरे वेयणा निजरा--
-अरिहंता चक्कवट्टीबलदेवा वासुदेवानरका नेरइयातिरिक्खजोणिआतिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिनिव्वाणं परिनिव्वुया
-अस्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे अस्थि कोहे माने माया लोभे जाव मिच्छादसणसल्ले।
वृ. 'आरियमनारियाणं'तिआर्यदेशोत्पन्नतदितरनराणाम् 'अप्पणो सभासाएपरिणामेणं परिणमइ'त्ति आर्यादीनामात्मनस्तत्सम्बन्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते।
याशं धर्मं कथयति तद्दर्शनार्थमाह-'तंजहे'त्यादि, 'अस्थि लोएइत्यादि कल्लाणपावए' इत्येतदन्तं, सुगम, नवरं लोकः-पञ्चास्तिकायमयः अलोकः-केवलाकाशरूपः, अनयोश्चास्तित्वाभिधानंशून्यवादनिरासार्थं, तन्निरासोपपत्तिश्च ग्रन्थान्तरागम्या, एवंप्रायेणोत्तरत्रापि, अत्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम्, 'अस्थिअजीव'त्ति पुरुषाद्वैतादिवादनिषेधार्थम्, 'अस्थिबंधे अस्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच्च द्वयं “संसरति बध्यतेमुच्यतेच नानाश्रया प्रकृतिरेव, नात्मे" त्येवंविधसाङ्ख्यमतनिषेधार्थमिति।। _ 'अस्थि पुन्ने अस्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानंच सुखदुःखहेतुर्न पापमस्ता त्येवंकिधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थंवा, अत्थि आसवेअस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोर्निष्कारण-त्वप्रतिषेधार्थवीर्यप्राधान्यख्यापनार्थं वा, अस्थि वेयणा अस्थि निजरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः।
एतच्च ‘नाभुक्तं क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधतां तच्छ्रद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं, तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थं, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश इति, तथा ये मन्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org