SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ औपपातिकउपाङ्गसूत्रम्-३३ तत्र विदेशे परिपिण्डिता-मिलितायास्तास्तथाताभि, इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचिंतियपत्थियमनोगतवियाणियाहिं' इङ्गितेन चिन्तितप्रार्थिते मनोगते-मनसि वर्तमाने वचनादिनाऽनुपदेशित विजानन्ति यास्तास्तथा ताभिः, ‘सदेसणेवत्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः। तथा चेडियाचक्कवालपरिसधरकंचुइजमहत्तरवंदपरिक्खित्ताओ' वर्षधराः-वर्द्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यद्वन्दं तेन परिक्षिप्ता यास्तास्तथा, 'नियगपरियाल सद्धिं संपरिवुडाओ'त्ति निजकपरिवारेण लुप्ततृतीयैकवचनदर्शनात् सार्धं-सह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ॥ मू. (३४) तएणं समणेभगवं महावीरे कूणिअस्स भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसेअमहतिमहालियाए परिसाएइसीपरिसाएमुणिपरिसाएजइपरिसाएदेवपरिसाए अनेगसयाए अनेगसयवंदाए अनेगसयवंदपरिवाराए ओहबले अइबले महब्बले __-अपरिभिअबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थनियमहुरगंभीरकोंचनिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्ममाए सव्वक्खरसण्णिवाइयाए पुन्नरत्ताए सव्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ। वृ. 'तीसे य महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थ, 'इसिपरिसाए'त्ति पश्यन्तीतिऋषयस्तएव परिषत्-परिवारः ऋषिपरिषत्तस्याअतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुनिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अनेगसयवंदाए'त्ति अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अनेगसय-वंदपरियालाएं अनेकशतमानानि यानि कृन्दानि तानि परिवारोयस्याः सा तथा तस्या। किम्भूतो भगवानित्याह-'ओहबले'त्ति अव्यवच्छिन्नबलः 'अइबले'त्ति अतिशयबलः 'महब्बले'त्तिप्रशस्तबलः 'अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्-जीवप्रभवं तेजो-दीप्तिः महास्यं-महानुभावता कान्ति-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्घोसदुंदुभिस्सरे' शारदं-शरत्कालीनं यन्नवस्तनितं-मेघध्वनितंतदिवमधुरो गम्भीरश्च कौञ्चनिर्घोषवच्चदुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्मं कथयतीत्याह __'उरेवित्थडाए' उरसि विस्तृतया उरसोविस्तीर्णत्वात्, सरस्वत्येति योगः, कंठेऽवछियाए' गलविवरस्य वर्तुलत्वात् 'सिरे समाइण्णाए' मूर्धनि सङ्कीर्णया आयामस्य मूर्ना स्खलितत्वात् 'अगरलाए'त्तिसुविभक्ताक्षरतया अमम्मणाए'त्ति अनपखञ्चयमानतया सव्वक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगोयस्यां सा तथा तया 'पुण्णरत्ताए'त्ति पूर्णाच स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहुरगंभीरगाहियाए' स्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा-स्फुटार्थामधुरा-कोमला गम्भीरामहती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽतस्तया, 'सव्वकखरसण्णिवाइयाए' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy