________________
१४६
औपपातिकउपाङ्गसूत्रम्-३२ उन्नतिं प्राप्यमाण इति 'मनोरहमालासहस्सेहिं विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थ : 'वयणमालासहस्सेहिं अभिथुव्वमाणे'त्ति व्यक्त।
कंतिसोभग्गगुणेहिं पत्थिन्जमाणे २ कान्त्यादिगुणैर्हेतुभूतैःप्रार्थ्यमानो-भर्तृतया स्वामितया वाजनेनाभिलष्यमाणः ‘मंजुमंजुणा घोसेण पडिपुच्छमाणे' मञ्जमञ्जुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्-प्रश्नयन्प्रणमतः स्वरूपादिवा पडिबुज्झमाणो त्ति पाठान्तरेप्रतिबुद्धयमानो जाग्रद्, अप्रचलायमान इत्यर्थः, ‘अपडिबुज्झमाणे'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानः-अनपहियमाणमानस इत्यर्थः ‘समइच्छमाणे'त्तिसमतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरेत्वेवं तंतीतलतालतुडियगीयवाइयरवेणं' व्यक्तमेव, किंविधेन रवेणेत्याह।
मधुरेण, अत एव ‘मनहरेणं' तथा 'जयसङ्ग्घोसविसएणं मझुमझुणा घोसेणंति जयेति शब्दस्याभिधानस्य उद्घोषः-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मजुमचुना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे'त्ति प्राग्वत्, 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दर्यो गिरीणां विवरकहराणि-गहाः पर्वतान्तराणिवागिरिवराः-प्रधानपर्वताःप्रासादाः-सप्तभूमिकादयः ऊर्ध्वधनभवनानि-उच्चाविरलगेहानिदेवकुलानि-प्रतीतानिशृङ्गाटकत्रिकचतुष्कचत्वराणिप्राग्वत् आरामाः-पुष्पजाति प्रधानाः वनषण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानि-नगराद् दूरवर्तीनिसभा–आस्थायिकाः प्रपा-जलदानस्थानम् एतेषांयेप्रदेशदेशरूपा भागास्तेतथा तान्,
___-तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, पडिसद्द (डिंसुआ)'सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कुलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जनस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुम-चुण्णउविद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उविद्धः-ऊर्ध्व गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन्, 'कालागुरु- कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, ‘समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः।।
तथा 'पउरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलंनभंकरेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानायो बोलः सबहुलोयत्रतत्तथा तदेवम्भूतंनभः कुर्वनिति।अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः।
'ठवेइ'त्ति स्थिरीकरोति 'अवहट्टु'त्ति अपहृत्य-परित्यज्य रायककुहाईति नृपचिह्नानि 'उप्फेसं'तिमुकुटं वालवीयणियंति चामरं सचित्ताणंदव्वाणंविउसरणयाए'त्तिपुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणंदव्वाणं अविउसरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन। _ 'चक्खुफासे'त्तिभगवतिष्टिपाते हस्थिक्खंधविट्ठभणयाए'त्तिवाचनान्तरं, तत्रहस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या विम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org