________________
मूलं- ३२
१४५
'आहेवच्चं 'ति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवच्चं 'ति पुरोवर्तित्वम् अग्रेसरत्वं 'भट्टित्तं' ति भर्तृत्वं पोषकत्वं 'सामित्तं ' ति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया महत्तमता 'आणाईसरसेणावच्चं' आज्ञेश्वर-आज्ञाप्रधानो यः सेनापति–सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यं कारेमाणे 'त्ति अन्यैः कारयन् 'पालेमाणे 'त्ति स्वयमेव पालयन्निति, 'महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघमुइंगपडुप्पवाइयरवेणं' महता रवेणेति योगः ।
आयत्ति - आख्यानकप्रतिबद्धं अहतं वा - अव्यवच्छिन्नं आहतं वा- आस्फालितं यन्नाटयं-नाटकं तत्र यद्गीतं च-गेयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च - वीणा तलतालाश्चहस्तास्फोटरवाः तला वा-हस्ताः तालाः - कंशिकाः तुडियत्ति - शेषतूर्याणि च घनमृदङ्गश्चमेघध्वनिर्मद्दलः पटुप्रवादितो- दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन ।
मू. (३२-वर्तते) तए णं से कूणिए राया भंभसारपुत्ते नयनमालासहस्सेहिं पेच्छिज्ज्रमाणे २ हिअयमाला - सहस्सेहिं अभिनंदिज्रमाणे २ मनोरहमालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ कंतिसोहग्गगुणेहिं पत्थिज्ज्रमाणे २ बहूणं नरणनरिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिबुज्झमाणे २ भवनपंतिसहस्साइं समइच्छमाणे २ चंपाए नयरीए मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ २ त्ता ।
- समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक्क हत्थिरयणं ठवेइ ठवित्ता अभिसेक्काओ हत्थिरयणाओ पञ्च्चोरुहइ आभिसेक्काओ रत्ता अवहट्टु पंच रायककुहाई, तंजहा
-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा -
सच्चित्ताणं दव्वाणं विउसरणयाए १ अच्चित्ताणं दव्वाणं अविउसरणयाए२ एगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मनसो एगत्तभावकरणेणं ५ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति नम॑सति वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ, तंजहा -
-काइयाए वाइयाए मानसियाए, काइवाए ताव संकुइअग्गहत्थपाए सुस्सूसमाणे नम॑समाणे अभिमुहे विनएणं पंजलिउडे पज्जुवासइ, वाइयाए जं जं भगवं वागरेइ ।
एवमेअं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेअं भंते! इच्छिअमेअं भंते! पडिच्छिअमेअंभंते! इच्छियपडिच्छियमेअं भंते! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं जणइत्ता तिव्वधम्मानुरागरत्तो पज्जुवासइ ॥
वृ. 'नयनमालासहस्सेहिं' ति नयनमालाः - श्रेणिस्थितजननेत्रपङ्कयः तासां यानि सहस्प्रणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिज्ज्रमाणे 'त्ति जनमनः सहस्र समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नइज्जमाणे' त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण
810
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org