________________
१४४
औपपातिकउपाङ्गसूत्रम्-३२ 'इठाहि' इष्यन्ते स्म इतीष्टा-वाञ्छितास्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तंचेत्त आह–'कंताहिं' कमनीयशब्दाभि पियाहिति प्रियार्थिभिः ‘मणुण्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभि ‘मणामाहिं मनसा अम्यन्ते-गम्यन्ते पुनःपुनर्या सुन्दरत्वातिशयात्ता मनोऽमाः ‘मणोभिरामाहिं तितत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिराम अतस्ताभि, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणाभिशुभार्थप्राप्ति सूचिकाभि : 'सिवाहिं' उपद्रवरहिताभि शब्दार्थदूषणरहिताभिरित्यर्थः।
'धन्नाहिं' धन्याभि-धनम्भिकाभि ‘मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभि ‘सस्सिरीयाहिं' सश्रीकाभि शोभायु क्ताभि 'हिययगमणिज्जाहिं सहृदयगमनीयाभि, सुबोधाभिरित्यर्थः, "हिययपल्हायणिजाहिं' हृदयप्रह्लादनीयाभि हृदयगत कोपशोकग्रन्थिविलयनकरीभिरित्यर्थः, "मियमहुरगंभीरगाहिगाहिं मिताः-परिमिताक्षराः मधुराः-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवधार्यमप्यर्थं श्रोतृन् ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि, ‘अट्ठसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः सइयाओ अठ्ठसइयाओ ताहिं 'अपुनरुक्ताभि'रिति व्यक्तं, 'वग्गूहिति वाग्भिः-गीभिः, एकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसएहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः ।
'अनवरयं' 'अभिनंदंताय' अभिनन्दयन्तश्च-राजानंसमृद्धिमन्तमाचक्षाणाः अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय नंदा!' जय जयेति सम्भ्रमे द्विवचनं नन्दति-समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, इह चदीर्घत्वं प्राकृतत्वात्, अथवाजयत्वंजगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा!' प्राग्वत्, नवरं भद्रः-कल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते प्राग्वदेव, नवरंभद्रंतेतवभवत्विति शेषः, 'अजिय'मित्यादीन्याशंसनानि व्यक्तानि।
म. (३२-वर्तते) इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआणं बहूई वासाइंबहूइं वाससआई बहूई वाससहस्साइंबहूई वाससयसहस्साई अणहसमग्गो हठ्ठतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए नयरीए अन्नेसिं च बहूणं गामागरनयर-खेडकब्बडमडंबदोणमुहपट्टणआसमनिगमसंवाहसंनिवेसाणं ।
-आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाइंभोगभोगाई भुंजमाणे विहराहित्तिक? जय २ सदं पउंजंति।।
वृ. इंदोइवेत्यादिविहराहि त एतदन्तं वाचनाद्वयेऽपिव्यक्तं, नवरम्-'अणहसमग्गो'त्ति अनघो-निर्दोषः समग्रः-समग्रपरिवारः 'हतुडे'त्तिअतीव तुष्टः परमाउंपालयाहि तितत्कालापेक्षया यदुत्कृष्टमायुस्तत्परमायुः ‘गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं' ग्रामो-जनपदाध्यासितः आकरो-लवणाधुत्पत्तिभूमि नगरम्-अविद्यमानकर खेटंधूलीप्राकारकर्बट-कुनगरंमडम्बम् अविद्यमानासन्ननिवेशान्तरंद्रोणमुखं-जलपथस्थल-पथोपेतं पत्तनंजलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रलभूमिरित्यन्ये, आश्रमः- तापसाधावासः संवाह-पर्वतनितम्बादिदुर्गे स्थानं सन्निवेशो-घोषप्रभृतिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org