________________
१३५
मूलं-३१ ललियंगयललियकयाभरणे वरकडगतुडियथंभिअश्रुए अहियरूवसस्सिरीए मुद्दिआपिंगलंगुलिए कुंडलुजोविआणणेमउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणपडसुकयउत्तरिजे नानामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंतविरइयसुसिलिट्ठविसिट्टलंट्ट आविद्धवीरवलए।
वृ. 'अट्टणसाल तिव्यामशाला अनेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्लङ्घनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपागसहस्सपागेहिति शतकृत्वो यत्पक्कंमपरापरौषधीरसेन सह शतेन वाकर्षापणानां यत्पकंतच्छपाकमेवमितरदप, 'सुगंधतेल्लमाईएहिंति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः ।
किम्भूतैरित्याह-'पीणनिजेहिंति रसरुधिरादिधातुसमताकारिभि 'दप्पणिज्जेहिं' दर्पणीयैर्बलकरैः 'मयणिज्जेहिंति मदनीयैर्मन्मथवर्द्धनैः विहणिज्जेहिं तिबृंहणीयैर्मापचयकारिभिः 'सविदियगायपल्हायणिज्जेहिंति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मंसित्तितैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रयतेततैलचर्म, तत्र संवाहिएत्तियोगः। ___'पडिपुन्नपाणिपायसुकुमालकोमलतलेहिंति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमलानि अत्यन्तकोमलानि तलानि-अधोभागा येषांतेतथातैः, 'छेएहिं तिछेकैः-अवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिति कार्याणामविलम्बितकारिभि पत्तठेहिं तिप्राप्ताथैलब्धोपदेशैरित्यर्थ 'कुसलेहिं ति सम्बाधनाकर्मणि साधुभि 'मेहावीहिंति मेघाविभिःअपूर्वविज्ञानग्रहणशक्तिकैः "निउणसिप्पोवगएहिं ति निपुणानि-सूक्ष्माणि यानि शिल्पानिअङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः।
‘अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं तिअभ्यङ्गनमनोद्वलनानांप्रतीतार्थानां करणेयेगुणाः-विशेषास्तुषुनिर्माता येतेतथा तैः। अठिसुहाए'त्ति अस्थ्नांसुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, संवाहणाए'त्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थ, 'अवगयखयपरिस्समे'त्तिखेदो-दैन्यं खिददैन्ये' इति वचनात् परिश्रमः-व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामेत्ति समस्तः-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो व्याप्तोऽभिरामश्चरम्योयःसतथा, पाठान्तरेसमुक्तेन-मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्चयःसतथा, 'विचित्तमणिरयणकुट्टिमतले त्ति कुट्टिमतलं-मणिभूमिका, 'सुहोदएहिति सुभोदकैस्तीर्थोदकैः सुखोदकैर्वा-नात्युष्णरित्यर्थः।
"गंधोदएहिति श्रीखण्डादिरसमित्रैः 'पुप्फोदएहिंति पुष्परसमित्रैः 'सुद्धोदएहिति स्वाभाविकैरित्यर्थः, 'तत्थ कोउयसएहिं'तितत्रस्नानावसरे यानि कौतुकानां-रक्षादीनांशतानि तैः 'पम्हलसुकुमालगंधकासाइलूहियंगे' पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लूक्षितं-विक्षितमङ्ग-शरीरं यस्य स तथा । 'अहयसुमहग्घदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमित्यर्थ सुमहार्धं च-बहुमूल्यं यद्देष्यरतं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्ठुसंवृतं-परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे यत्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं च-मण्डनकारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org