________________
१३०
औपपातिकउपाङ्गसूत्रम्-२७
तन्मयमिवनगरं विदधाना इत्यर्थः, कवचिदिदं पदचतुष्टयंश्यते-'पायदद्दरेणं भूमि कंपेमाण'त्ति त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्तिपादपातप्रतिरवेणाकाशं स्फोटयन्त इव, ‘एगदिसि'तिएकया दिशापूर्वोक्तलक्षणया, 'एगाभिमुह'त्ति एकं भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसे'त्ति तीर्थकरातिशेषान् जिनातिशयान्।
___ “जाणवाहणाइं ठावइंति'त्ति यानानि-शकटादीनि वाहनानि-गवादीनि स्थापयन्तिस्थितीकुर्वन्ति, कचिद् ‘विठ्ठब्भंती ति दृश्यते, तत्र विशेषेण स्तम्भयन्ति-निश्चलीकुर्वन्ति, इति वाचनान्तरगतं बहु लिख्यते-'जाणाइं मुयंति'त्ति भुवि विन्यस्यन्ति, 'वाहणाइं विसज्जेति'त्ति चरणार्थंमुत्कलयन्ति, पुप्फतंबोलाइयंआउहमाइयंसच्चित्तालंकारं ति सचित्तंच-सचेतनमलङ्कारं च-राजलक्षणंचविसर्जयन्तीतियोगः, किंरूपं सचित्तमित्याह-पुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह-आयुधादिकम्, आयुधं-खङ्गादि आदिशब्दाच्छत्रचामरमुकुटपरिग्रहः, 'पाहणाओ यत्ति उपानही च।। ___ “एगसाडियंउत्तरासंग'तिएकशाटकवन्तमुत्तरीयविन्यासविशेषं, आयंत त्तिआचान्ताःशौचार्थंकृतजलस्पर्शा, 'चोक्ख'त्तिआचमनदपनीताशुचिद्रव्याः, परमसुईभूय'त्तिअतएवात्यर्थं शुचीभूताः, अभिगमेणं'ति उपचारेण, 'अभिगच्छंति' भगवन्ति मुपचरन्ति, 'चक्खुप्फासे'त्ति दर्शने 'मणसा एगत्तीभावकरणेणं'ति अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थ, कायिकपर्युपासनामाह-'सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहितैः-बहिवृाऽत्यन्तनिभृतैः प्रशान्तैः-अन्तर्वृत्या उपशान्तैः सद्भि संहृतं-संलीनी कृतं पाणिपादं यैस्ते तथा।
___ अत एव 'अंजलिमउलियहत्था' अञ्जलिना-अञ्जलिरूपतया मुकुलिती-मुकुलाकारौ कृतौ हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह-'एवमेयं भंते'त्ति एवमेतद्भदन्त ! भट्टारकेति सामान्यतः ‘अवितहमेयं ति विशेषतः अत एव ‘असंदिद्धमेयं तिशङ्काया अविषय इत्यर्थ, अत एव 'इच्छियमेयंति इष्टमस्माकमेतत्, अत एव 'पडिच्छियमेय'ति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत्, इह च किञ्चिदिष्टमेव दृष्टमन्यत्प्रतीप्सितमेवेत्यत उच्यते-'इच्छियपडिच्छियमेयंति, 'सच्चे णं एसमडे' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'तचित्त'त्ति तस्मिन् भगवद्वचने चित्तं-भावमनो येषां ते तचित्ताः, सामान्योपयोगापेक्षया वा तच्चित्ताः, 'तम्मण'त्ति तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोगं वा, 'तल्लेस्स'त्ति तल्लेश्याः भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह॥१॥ कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥ 'तयज्झवसिय'त्तिइहाध्यवसयः अध्यवसितं तच्चित्तत्वादिभावयुक्तानांसतांतस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, तत्तिव्वज्झवसाण'त्ति तस्मिन्नेव-भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण तितस्मिन्-भगवत्यार्पितानि करणानि-इन्द्रियाणिशब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, 'तयट्ठोवउत्त'त्ति तस्य-भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org