________________
मूलं- २७
प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः ।
अत एव 'एगमण'त्ति मनसो वा प्रमुदितत्वात्, अणन्नमणत्ति भगवन्मनस इत्यर्थ, किमुक्तं भवति ? - 'जिनवयणधम्मानुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकार्थिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसियवरकमलनयणवयण' त्ति विकसितानि वरकमलानीव नयनवनानि येषां ते तथा पर्युपासत इति ।
'समोरणाई' ति समवसरणानि - वसतयः 'गवेसह ' त्ति भगवदवस्थानावगमार्थं निरूपयत, क भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु व 'त्ति आगन्तुगाराणि येष्वागन्तुका वसन्ति, ‘आरामागारेसु व’त्ति आराममध्यवर्तिगृहेषु 'आएसणेसु व 'त्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकुम्भकारादिस्थानानि, 'आवसहेसु व 'त्ति आवसथाः - परिव्राजकस्थानानि, 'पणियगेहेसु व' त्ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु व' त्ति भाण्ड शालासु, गृहं सामान्यं शाला तु गृहमेव दीर्घतरमुच्चतरंच, एवं 'जाणगिहेसु जाणसालासु' त्ति 'कोठागारेसु' त्ति धान्यगृहेषु 'सुसाणेसु' त्ति श्मशानेषु 'सुन्नागारेसु' त्ति शून्यगृहेषु 'परिहिंडमाणे 'त्ति भ्रमन् 'परिघोलेमाणे' त्ति गमागमं कुर्वन् ॥
मू. (२८) तए णं से पवित्तिवाउए इमीसे कहाए लद्धट्ठे समाणे हट्टतुट्ठे जाव हियए ण्हाए जाव अप्पमहग्घाभरणालंकि असरीरे सयाओ गिहाओ पडिनिक्खमइ, सयाओ गिहाओ पडिनिक्खमित्ता चंपानयरिं मज्झमज्झेणं
१३१
--
- जेणेव बाहिरिया सव्वेव हेट्ठिल्ला वत्तव्वया जाव निसीयइ निसीइत्ता तस्स पवित्तिवाउअस्स अद्धत्तेरससयसहस्साइं पीइदानं दलयति, २ त्ता सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ
मू. (२९) तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भोदेवाणुप्पिआ ! आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलिअं च चाउरंगिणिं सेनं सण्णाहिहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवठ्ठाणसालाए पाडिएक्कपाडिएक्कई जत्ताभिमुहाइ जुत्ताइं जाणाई उवठ्ठवेह ।
चंपंनयरिं सब्भितरबाहिरिअं आसित्तसित्तसुइसम्मठ्ठरत्थंतरावणवीहिअंमंचाइमंचकलिअं नानाविहरागउच्छियज्झयपडागाइपडागमंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदनजावगंधवट्टिभूअं करेह कारवेह करिता कारवेत्ता एअमाणत्तिअं पञ्चष्पिणाहि, निज्जाइस्सामि समणं भगवं महावीरं अभिवंदए ।
वृ. प्रकृतवाचनाऽनुश्रीयते - 'बलवाउयं' ति बलव्यापृतं - सैन्यव्यापारपरायणम् 'आभिसेक' ति अभिषेकमर्हतीत्याभिषेक्यं, 'हत्थिरयणं' ति प्रधानहस्तिनं 'पडिकप्पेहि 'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्क' ति प्रत्येकमेकैकशः 'जत्ताभिमुहाइं' ति गमनाभिमुखानि 'जुत्ताई' ति युक्तानि - बलीवर्दादियुतानि, कचित् युग्यानि पठयन्ते तानि च जम्पानविशेषाः, 'जाणाई' ति शकटानि 'सब्भितरबाहिरिं' ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका- नगरवहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तमसंमज्जिओवलित्तं' आसिक्ताम् - उदकच्छटेन सम्मार्जितांकचवरशोधनेन उपलिप्तां - गोमयादिना ।
Jain Education International
केष्वित्याह- 'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहाहपहेसु' इदं च वाक्यद्वयं
For Private & Personal Use Only
www.jainelibrary.org