________________
औपपातिकउपाङ्गसूत्रम् - २७
धार्मिकस्य धर्मप्रयोजनत्वात्, अत एव सुवचनस्येति, 'वंदामो' त्ति स्तुमः 'नमंसामो' त्ति प्रणमामः 'सक्कारेमो' त्ति सत्कुर्म, आदरं वस्त्रद्यर्चनं वा विदध्मः, 'संमाणेमो' त्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याणं - कल्याणहेतुत्वादभ्युदयहेतुमित्यर्थो, भगवन्तमिति योगः, मङ्गलं- दुरितोपशमहेतुं दैवतं देवं चैत्यम् - इष्टदेवप्रतिमा तदिव चैत्यं, 'पर्युपासयामः' सेवामहे ।
१२८
'एयं णे' त्ति एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवे 'त्ति प्रेत्यभवे - जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए 'त्ति हिताय पथ्यान्नवत् 'सुहाए' त्ति सुखाय शर्मणे 'खमाए 'त्ति क्षमाय सङ्गतत्वाय ‘निस्सेयसाए' त्ति निश्रेयसाय मोक्षाय 'आणुगामियत्ताए 'त्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा - इतिहेतोरित्यर्थः, 'उग्ग' तति आदिदेवावस्थापितारक्षवंशजाः ‘उग्गपुत्त' त्तित एव कुमारावस्थाः 'भोग'त्ति आदिदेवावस्थापितगुरुवंशजाः 'भोगपुत्त' त्तित एव कुमारावस्थाः ।
मू. (२७- वर्तते) एवं दुपडोआरेणं राइण्णा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अन्ने य बहवे राईसरतलवरमाडंबियकोडुबि अइब्भसेट्ठिसेणावइसत्थवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं ।
एवं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अट्ठविणिच्छयहेउं अस्सुयाइं सुणेस्सामो सुवाइं निस्संकियाइं करिस्सामो अप्पेगइआ अट्ठाइं हेऊइं कारणाइं वागरणाई पुच्छिस्साणो ।
वृ. एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठ्यते 'इक्खागा नाया कोरव्वा' तत्रेक्ष्वाकवो - नाभेयवंशजाः नायत्ति - नागवंश्या ज्ञातवंशा वा कोरव्यत्ति - कुरुवंशजाः खत्तियत्ति - सामान्यराजकुलीनाः माहणत्ति - प्रतीताः भडत्ति - शूराः जोहत्ति - योधाः सहस्रयोधादयः पसत्थारोत्ति - धर्मशास्त्रपाठकाः 'मल्लई लेच्छइ' त्ति मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजाः - 'नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस गणरायाणो' इति ।
'राईसरतलवरमाडंबिय कोडुंबियइब्भसेट्ठिसेनावइसत्थवाहपभितिओ'त्ति राजानोमाण्डलिका ईश्वरा - युवराजाः, अणिमाद्यैश्वर्ययुक्ता इति केचित्, तलवराः - परितुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः माण्डविकाः - मण्डपाधिपाः कौटुम्बिकाः - कतिपयकुटुम्ब - प्रभवोऽवलगकाः इभ्याः - यद्रव्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिनः- श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः - नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाःसार्थनायकाः ।
'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्ठाई हेऊई कारणाई वागरणाई पुच्छिस्सामो' त्ति कवचिद् ६श्यते, तत्र अर्थान् -जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकयुक्तान् कारणानि–उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि - परप्रश्नितार्थोत्तररूपाणि ।
मू. (२७ - वर्तते) अप्पेगइआ सव्वओ समंता मुंडे भवित्ता आगाराओ अनगारिअं पव्वइस्सामो, पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, अप्पेगइआ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org