________________
मूलं - २७
वृ. 'तए णं'ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थः - सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटकं - सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थ त्रिकं - यत्र स्थाने रथ्यात्रयमीलको भवति चतुष्कं - यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं - यत्र बहवो मार्गा मिलन्ति चतुर्मुखंतथाविधदेवकुलादि महापथोराजमार्ग पन्था-रथ्यामात्रं ‘महयाजनसद्दे इ वा' महान् जनशब्दः - परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थोवाशब्दः पदान्तरापेक्षया समुच्चयार्थ, अथवा 'सद्देइव' त्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, कचित् 'बहुजनसद्दे इ व 'त्ति पाठो व्यक्तश्च यत्र च जनव्यूह इति वा - लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थ, एवं सर्वत्र, कवचित्पठ्यते
१२७
'जनवाए इ वा जनुल्लावे इ वा' इति तत्र जनवादो - जनानां परस्परेण वस्तुविचारणं उल्लापस्तु तेषामेव काका वर्णनम्, आह च
119 11
" स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥”
एवं बोलः - अव्यक्तवर्णो ध्वनि, कलकलः - स एवोपलभ्यमानवर्णविभागः, ऊर्मिःसम्बाधः उत्कलिका - लघुतरः समुदाय एव सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, ‘एव’मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ' त्ति, आख्याति सामान्येन 'भास' त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह - 'प्रज्ञापयति प्ररूपयति चे 'ति ।
अथवा आख्याति - सामान्यतः भाषते - विशेषतः प्रज्ञापयति - व्यक्तपर्यायवचनतः प्ररूपयत–उपपत्तितः ‘इह आगए 'त्ति चम्पायाम् 'इह संपत्ते' त्ति पूर्णभद्रे 'इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह - 'इह चंपाए' इत्यादि 'अहापडिरूवं 'ति यथाप्रतिरूपम् उचितमित्यर्थ मू. (२७ - वर्तते) तं महप्फलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोअस्सवि सवणताए, किमंगपुण अभिगमणवंदननमंसणपडिपुच्छणपज्जुवासणयाए ?, एक्कस्सवि आयरिय- स्स धम्मिअस्स सुवयणस्स सवणताएं ?, किमंगपुण विउलस्स अत्थस्स गहणयाए ?
तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सक्करेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइअं पज्जुवासामो एतं णे पेच्चभवे इहभवे अहियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्टु बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता ।
बृ. 'तं महप्फलं 'ति यस्मादेवं तस्मान्महद् - विशिष्टं फलम् - अर्थो भवतीति गम्यं, ‘तहारूवाणं’त तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थ, 'नामगोयस्सवि' त्ति नाम्नो-याच्छिकाभिधानस्य गोत्रस्य - गुणनिष्पन्नाभिधानस्य 'सवणयाए 'त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण' त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थ, अत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ, 'अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए 'त्ति अभिगमनम् अभिमुखगमनं वन्दनं - स्तुति नमस्यनं- प्रणमनं प्रतिप्रच्छनं - शरीरादिवार्ताप्रश्नः पर्युपासनं - सेवा एतेषां भावस्तत्ता तया ।
तथा 'एस्सवि' त्ति एकस्यापि 'आरियस्स' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स' त्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International