________________
मूलं - २६
अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपरिगएहिं' मणिकनकरतैर्घटितं युक्तं यज्वालोज्ज्वलं प्रभोज्ज्वलं हेमलाजं - स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेहिं' सह प्रतरैः - आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पचलियघंटावलिमहुरसद्दवंसतंतितलतालगीयवाइयरवेणं' प्रचलितायाः घम्टावल्याः यो मधुरः शब्दः स तथा वंश - स्त्री - वीणा तलतालाश्च - हस्तताला अथवा तलाश्च- हस्ताः तालाश्च-कंशिका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्व : अतस्तेषां यो रवः - शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करमभूतेन मधुरेणमनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं ।
१२३
'हमणस' त्ति अतीव तुष्टचित्ताः 'सेसावि य'त्ति इन्द्रसामानिकादयः, तानेवाह'कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थ, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्त चिंधनामंकविगडपागडमउडाडोवसुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकप्रकटमुकुटानां चय आटोपः - स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति 'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो यावि देवसंघाय'त्ति लोकस्य -ब्रह्मलोकस्यान्ते- समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः ।
‘पत्तेयविरायमामविरइयमणिरयणकुंडलभिसंतनिम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति - दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि - विविधानि प्रकटितानि - प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानियैस्ते तथा, तथा 'दायंत' त्ति दर्शयन्तः 'अप्पणो समुदयं ति आत्मीयं ऋद्धयादिसमूहं 'पेच्छंतावि य परस्स रिद्धीउ 'त्ति प्रेक्षमाणाश्च परद्धीः उत्तमाः, एवं कल्पालयाः सरवराः 'जिणिदवंदननिमित्तभत्तीए 'त्ति जिनेन्द्रवन्दन हेतु भूतभावेन 'चोइयमइ' त्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवाः 'जिणदंसणूस्सुयागमणजणियहासा' जिनदर्शनाय यदुत्सुकं - शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा ।
'विउलबलसमूहपिंडिया' विपुलो बलसमूहः- सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह - 'संभमेणं' ति भक्तिकृतौत्सुक्येन 'गयणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽतएव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि - रथादीनि वाहनानि-गजादीनि उच्छ्रितविमलधवलातपत्राः । 'विउव्वियजाणवाहणविमाणदेहरयणप्पभाए' त्ति वैक्रयाणां यानादीनां ४ रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नहं' कथमित्याह
'वितिमिरं करेंता' नभ एवेति 'सव्विड्डीए' युक्ता इति शेषः, 'हुलियं' ति शीघ्रं प्रयाताः गमान्तरमिदम् –'पसिढिलवरमउडतिरीडधारी' प्रश्लथा: - शिथिलबन्धना, गाढबन्धनानां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International