________________
औपपातिकउपाङ्गसूत्रम् - २५
ज्योतिषामसङ्ख्यातत्वात्, ‘तत्ततवणिज्जकणगवण्णा' तप्तस्य तपनीयस्य सुवर्णस्य यः कणकोबिन्दुः शलाका वा अथवा तपनीयं - रक्तं सुवर्णं कनकं - सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 'जे य गह' त्ति उक्तव्यतिरिक्ताः, 'जोइसंमि' त्ति ज्योतिश्चक्र 'चारं चरन्ती' तिभ्रमणं कुर्वन्ति । 'केऊय'त्ति केतवो जलकेत्वादयः, किम्भूता ? - 'गइरइय'त्ति मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स' त्ति स्थितलेश्याः - निश्चलप्रकाशाः 'चारिणो य'त्ति सञ्चरिष्णवः, अत एवाह'अविस्साममंडलगइ' त्ति प्रतीतं, 'नामंकपागडियचिंधमउडा' नामाङ्कितानि प्रकटितानिचिह्नप्रधानानि मुकुटानि यैरिति समासः ॥
मू. (२६) तेणं कालेणं तेंण समएणं समणस्स भगवओ महावीरस्स वेमाणिया देवा अंतिअं पाउब्भवित्था सोहम्मीसाणसणंकुमारमाहिंदबंभलंतकमहासुक्कसहस्साराणयाणयारणअच्चुयवई पडिठ्ठा देवा जिनदंसणुस्सुगागमणजणियहासा पालकपुष्फकसोमनससिरिवच्छनंदिआवत्तकामगमपीइगममणोगमविमलसव्वओभद्दणामधिज्जेहिं विमाणेहिं ओइण्णा वंदका जिणिदं ।
मिगमहिसवराहछगलदहुरहयगयवइभु अगखग्गउसभंकविडिमपागडियचिंधमउडा पसिढिलवरमउडतिरीडधारी कुंडलउज्जोविआणणा मउडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउब्विणो विविहवत्थगंधमल्लधरा महिड्डिआ महज्जुतिआ जाव पंजलिउडा पज्जुवासंति ॥
१२२
वृ. वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किञ्चिदधिकृतवाचनान्तरगतं च तत्र 'सामानियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः - महत्तरकल्पाः पूज्यस्थानीयाः 'सलोगपाल अग्गमहिसिपरिसाणीअअप्परक्खेहिं संपरिवुडा' सह लोकपालैः सोमादिभिर्दिक्पालकनियुक्तकैः या अग्रमहिष्यःप्रधानजायाः परिषदश्च–बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च - हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च - अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति ।
देवसहस्रनुयातमार्गः सुरवरगणैश्वरैः प्रयतैः 'समणुगम्मंतसस्सिरीय'त्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः, सर्वादरभूषिताः सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्खेन जयशब्दः कृत आलोके-दर्शने येषां ते तथा ।
'मिग १ महिस २ वराह ३ छगल ४ दद्दुर ५ हय ६ गयवइ ७ भुयग ८ खग्ग ९ उसभंक १० विडिमपागडियचिंधमउडा' मृगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः - शूकरः खङ्ग–आटव्यचतुष्पदविशेषः ऋषभो - वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का - लाञ्छनानि विटपेषु विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानिरत्नादिदीप्तया प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा । पालक १ पुष्पक २ सौमनस ३ श्रीवत्स ४ नन्द्यावर्त ५ कामगम ६ प्रीतिगम ७ मनोगम ८ विमल ९ सर्वतोभद्र १० नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थ, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणं भवन्तीति । किंविधैस्तैरित्यर्थः, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शक्रदीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति ।
किंविधैस्तैरित्याह- 'तरुणदिवागरकरातिरेगप्पहेहिं' तरुणदिवाकरकरेभ्योऽतिरेकेण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org