SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ औपपातिकउपाङ्गसूत्रम्-२६ बाधाजनकत्वात् (वर)मुकुटाश्चतुरस्रशेखर विशेषाःतिरीटास्त एवशिखरत्रययुक्तास्तान्धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, मउडदित्तसिरय'त्ति मुकुटेन दीप्ताः शिरोजा मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'रत्ताभ'त्ति लोहितवर्णा 'पउमपम्हगोर'त्ति कमलगर्भकान्ताः पीता इत्यर्थ, 'सेय'त्ति शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, यदाह॥१॥ “कणगत्तयरत्तामा सरवसभा दोसु होंति कप्पेसु। तिसुहोति पम्हगोरा तेण परंसुक्कला देवा ॥" शेषं व्यक्तमेवेति।पुस्तकान्तरे देवीवर्णको दृश्यते, सचैवम्-'तेणं कालेणं तेणं समएणं समणस्सभगवओमहावीरस्सबहवे अच्छरगणसंघायाअंतिअंपाउब्मवित्था, ताओणंअच्छराओ धंतधोयकण-गरुअगसरिसप्पभाओ' मातम्-अग्निनातापितं धौतं-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वर्णस्तत्सध्शप्रभाः गौराङ्गय इत्यर्थ, “समइक्कंता य बालभावं'ति अतिक्रान्ता इव शिशुत्वं, मध्यम-जरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोम्मचारुरूवा' अनतिवरम् अविद्यमानहासतयाप्रधाननविद्यतेअतिवरंयस्मात्तदनतिवरमिति वासौम्यं नीरोगं चारु-शोभनं रूपं यासांतास्तथा। निरुवहयसरसजोव्वणकक्कसतरुणवयभावमुवगयओ' निरुपहतं-रोगादिनाअबाधितं सरसंच-शृङ्गाररसोपेतंनिरुपहतोवा स्वोरसोयत्रतत्तथाविधंयौवनंतताकर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवनतरुणभावयोर्यद्यप्येकार्थता तथापि सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोःप्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणानपौनरुक्त्यमिति, निश्चमवठियसहावा' नजरांप्राप्नुवन्तीत्यर्थ, 'सव्वंगसुंदरीउत्ति 'इच्छियनेवत्थरइयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वाअत एव रमणीयो गृहीतः-आत्तो वेषः-आकृतिविशेषो यकाभिस्तास्तथा। किंते'त्तितद्यथार्थ 'हारद्धहारपाउत्तरयणकुंडलवासुत्तगहेमजालमणिजालकणगजालसुभगउरितियकडगखड्डुगएगावलिकंठसुत्तमगहगधरच्छगेवेजोणिसुत्तगतिलगफुल्लगसिद्धत्थियकण्णवालियससिसूरउसभचक्कयतलभंगयतुडियहत्थमालयहरिसकेऊरवलयपालंबपलं बंगुलिज्जगवलक्खदीणारमालियाचंदसूरमालियाकंचिमेहलकलावपयरगपरिहेरगपायजालघंटियाखिखिणिरयणोरुजालखुड्डियवरेउरचलणमालियाकणगणिगलजालगमगरमुहविरायमाणनेऊरपचलियसद्दालभूसणधरीउतिहारादीनि मकरमुखविराजमाननूपुरान्तानिप्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा। तत्रहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः पाउत्तत्ति-प्रयुक्तानिमाणिक्ययुक्तकङ्कणानिरत्नकुण्डलानि-प्रतीतानि अथवाप्रयुक्तरत्नकुण्डलानि-प्रयुक्तरलानियानिकुण्डलानि तानितथा तथाव्यामुक्तकानि-परिहितानिप्रलम्बितानिवा यानिहेमजालादीनीतिकर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः सच रूढिगम्यः सूत्रकं-वैकक्षककृतं सुवर्मसूत्रम् ‘उरितिय'त्ति उरसि त्रिकं त्रिसरकं कटकानि-कङ्कणानि खड्डुगत्ति-अङ्गुलीयकवशेषः। ___ एकावली-नानामणिकमयीमालाकण्ठसूत्रं-गलावलम्बि सङ्कलकविशेषःमगधकंधराक्षं च रूढिगम्यं ग्रैवेयकं-कण्ठलं श्रोणिसूत्रकं-सौवर्णं कटीसूत्रं तिलको विशेषको ललाटाभरण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy