SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ औपपातिकउपाङ्गसूत्रम्-१७ स्नेहरहिता इत्यर्थः, 'कुम्मो व गुत्तिंदिय'त्ति कच्छपोहि कदाचिद्ग्रीवापाद लक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, विहगइवविप्पमुक्कत्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाता-एकभूता रागादिसहायवैकल्यादिति।। _ 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणोः किलैकं शरीरंपृथग्ग्रीवं त्रिपादं च भवति, तौचात्यन्तमप्रमत्तयैव निहितेनोपमाकृतेति, ‘कुंजरोइव सोंडीरा' हस्तीव शूराः कषायादिरिपून् प्रतीत्येति, ‘वसभोइवजायत्थामा' गौरिवोत्पन्नबलाः,प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थ, 'सीहो इव दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः। ___ 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्वाः, 'सागरो इव गंभीर'त्ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदोइव सोमलेस्स'त्ति अनुपतापहेतुमनः परिणामाः, सूरोइव दित्ततेअत्तिदीप्ततेजसो द्रव्यतःशरीरदीप्तयाभावतोज्ञानेन, जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात्यैस्तेजातरूपाः, 'वसुंधराइवसव्वफासविसह'त्ति स्पर्शा-शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् विषहन्ते येते तथा। _ 'सुहुअहुआसणोइवतेअसाजलंता' सुष्टुहुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्तेजसा–ज्ञानरूपेणतपोरूपेण चज्वलन्तो-दीप्यमानाः, पुस्तकान्तरेविशेषणानि सर्वाण्येतानीदं चाधिकम्-'आदरिसफलगाइवपायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानितानीवप्रकटा-यथावदुपलभ्यमानस्वभावाभावा-आदर्शपक्षे नयनमुखादिधर्मा साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः। मू. (१७ -वर्तते) नत्थि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवइ, से अ पडिबंदे चउविहे पन्नत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दब्बओणंसचित्ताचित्तमीसिएसु दव्वेसु, खेत्तओ गामे वा नयरे वा रन्ने वा खेत्ते वा खले वा घरे वा अंगणे वा। कालओ समए वा आवलियाए वा जावअयणे वा अन्नतरे वादीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिंण भवइ । तेणंभगवंतोवासावासवजंअट्ठगिम्हहेमंतिआणि मासाणिगामेएगराइआनयर पंचराइआ वासीचंदणसमाणकप्पा समलेटुकंचणा समसुहदुक्खाइहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मनिग्धायणट्ठाए अब्भुट्ठिआ विहरंति ॥ ___ वृ. 'नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः ४, द्रव्यतः सचित्तादिषु ३, क्षेत्रतो ग्रामादिषु ७, तत्र क्षेत्रं-धान्यजन्मभूमि खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयःसर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावतकरणादिदं दृश्यम्-‘आणापाणू वा' उच्छ्वासनिश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाःप्रतीताः, 'अयणं' दक्षिणायनमितरच्च, अन्यतरे वा 'दीहकालसंजोए'त्ति वर्षशतादौ, भावतः क्रोधादिषु ६। “एवं तेसिं न भवइत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy