SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मूलं- १७ १०३ विहग इव सव्वओ विप्पमुक्क मंदर इव अप्पकंपा सारयसलिलं व सुद्धहि अया खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इव दुद्धरिसा वसुंधरा इव सव्वफासविसहा सुहअहुआसणे इव तेअसा जलंता । वृ. 'तेणं काले 'मित्यादि गमान्तरं व्यक्तंच, नवरं समितिसूत्रे 'आयाणमंडभत्तनिक्खेवणासमिय’त्तिआदाने-ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाः - वस्त्राद्युकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्यवस्त्रादेर्मृन्मयभाजनस्य वामात्रस्य च - पात्रविशेषस्य निक्षेपणायां-विमोचने ये समिताः - सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते तथा, 'उच्चारपासवण - खेलसिंघाणजल्लपारिट्ठावणियासमिया' पुरीषमूत्रनिष्ठीवननासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात् । 'ते' त्यादि पदत्रयं कण्ठयम्, अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'गुत्तिंदिय'त्ति शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुत्तिंदिय' त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारि' त्ति गुप्तंवसत्यादिगुप्तिद्ब्रह्म-मैथुनविरतिं चरन्ति - आसेवन्त इत्येवंशीलाः गुप्तब्रह्मचारिणः, 'अमम' त्ति आभिष्वङ्गिकममेतिशब्दवर्जा 'किंचन' त्ति निर्द्रव्याः वाचनान्तरे । 'अकोहे 'त्यादीन्येकादश पदानि ध्श्यन्ते, तत्र 'अकोहे 'त्यादि४ प्रतीतानि, अत एव 'संत' त्ति शान्ता अन्तर्वृत्या 'पसंत' त्ति प्रशान्ताः बहिर्वृत्या 'उवसंत' त्ति उपशान्ता उभयतः, अथवा मनः प्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात् प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्तानिवृत्ताः पापेभ्य, अथवा प्रशमप्रकर्षाभिधानायैकार्थं पदत्रयमिदम्, अत एव 'परिनिव्वुआ' सकलसन्तापवर्जिताः ‘अणासव' त्ति अनाश्रवाः - अविद्यमानपापकर्मबन्धाः 'अगंथ 'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसोअ' त्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः । 'निरुवलेव’त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानैराह-लक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमङ्ग्रहगाथे'कंसे १ संखे २ जीवे ३ गयणे ४ वाए ५ य सारए सलिले ६ । पुक्खरपत्ते ७ कुम्मे ८ विहगे ९ खग्गे य १० भारंडे ११ ॥ ॥ २ ॥ कुंजर १२ वसहे १३ सीहे १४ नगराया चेव १५ सागरS कखोहे १६ । चंदे १७ सूरे १८ कणगे १९ वसुंधरा चेव २१ सुहुयहुए २१ ॥ उक्तगाथानुक्रमेणेह तानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव ध्ष्टत्वादिति, 'कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्तं त्यक्तं तोयमिव तोयं - बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे' ति कम्बुवत् रङ्गणं- रागाद्युपरञ्जनं तस्मान्निर्गताः, 'जीव इव अप्पsिहयगती' प्रत्यनीककुतीर्थिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामथ्योर्पेतत्वेनास्खलितगतय इत्यर्थः । संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगनमिव निरालंबण' त्ति कुलग्रामनगराद्यालम्बनवर्जिता इत्यर्थ सर्वत्रानिश्चिता इति ह्वदयं, 'वायुरिव अप्पडिबद्धा' ग्रामादिष्वेकरात्र्यादिवासात् 'सारयसलिलं व सुद्धहिअय'त्ति अकलुषमनस्त्वात्, 'पुक्खरपत्तं व निरुवलेव'त्ति पङ्कजलकल्पस्वजनविषय Jain Education International For Private & Personal Use Only 11911 www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy