SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपाङ्गसूत्रम्-१६ पाठान्तरेणात्मवादिनो जैना इत्यर्थ, विदिताः - प्रतीताः भवन्ति, तता परवादाः - शाक्यादिमतानि, पाठान्तरेण परवादिनः- शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावायं'ति स्वसिद्धान्तं 'जमइत्त' त्ति पुनः पुनरावर्तनेनातिपरिचितं कृत्वा, किमिव के इत्याहनलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं नलवनानीवेति व्याख्येयं ततः ‘अच्छिद्दपसिणवागरण’त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण 'त्ति प्रतीतं । 'कुत्तिआवणभूअ ' त्ति कुत्रिकं - स्वर्गमर्त्यपातालक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणो - हट्टः कुत्रिकापणस्तद्भूताः - समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दण' त्ति तन्मतप्रमर्द्दनात् 'परवाईहिं अणोकंता इत्यादि चोद्दसपुव्वी' त्यन्तं वाचनान्तरं, तत्र अनुपक्रन्ता - अनिराकृता इत्यर्थ, 'अन्नउत्थिएहिं 'ति अन्ययूथिकैः - परतीर्थिकैः 'अणोद्धंसिजमाण' त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति - विचरन्ति, 'अप्पेगइया आयाघरे' त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याद्युक्तम्, अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेर्विचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूव्यार्दिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति । १०२ चतुर्दशपूर्वित्वेसत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात्, अत आह— 'दुवालसंगिणो' त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह-'समत्तगणिपिडगधर' गणीनाम् - अर्थपरिच्छेदानां पिटकमिव पटकं स्थानं गणिपिटकम्, अथवा पिटकमिव वालञ्जक- वाणिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिनआचार्यस्य पिटकं गणिपिटक - प्रकीर्णक श्रुतादेशश्रुतनिर्युक्त्यादियुक्तं जिनप्रवचनं, समस्तम्अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा । अत एव 'सव्वक्खरसण्णिवाइणो' त्ति सर्वे अक्षरसन्निपाताः - वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणुगामिणो त्ति सर्वभाषाः - आर्यानार्यामरवाचः अनुगच्छन्ति - अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषाःसंस्कृतप्राकृतमागध्याद्या अनुगमयन्ति - व्याख्यान्तीत्येवंशीला येते तथा, 'अजिन' त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः, जिना इवावितथं व्याकुर्वाणाः ॥ मू. (१७) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अनगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदानभंडमत्तनिक्खेवणासमिआ उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिंदिया गुत्तबंभयारी अममा अकिंचणा । छिन्नग्गंथा छिन्नसोआ निरवलेवा कंसपातीव मुक्कतोआ संख इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगंपिवजातरूवा दरिसफलगाविव पागडभावा कुम्मो इव गुत्तिंदिआ पुकखरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा सूर इव दित्ततेआ सागरो इव गंभीरा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy