________________
९०
॥१॥
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/२/४५
"सो होइ साइजोगो दव्वं जं छुहिय अन्नदव्वेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणि ॥ त्ति"
एकीयं व्याख्यानं, व्याख्यानान्तरं पुनरेवं - उत्कोचनं उत्कोचः निकृतिः - वञ्चनप्रच्छादनार्थं कर्म सातिः - अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव, चिरं- बहुकालं यावत् नगरे नगरस्य वा विनष्टो - विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूर्तो भवतीत्येवं विशेषितः, तथा दुष्टं शीलं -स्वभावः आकारः -आकृतिश्चरित्रं च - अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी - द्यूतासक्तः एवमितराणि, नवरं भोज्यानि - खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हृदयानि दारयतिस्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियकारए' जनहितस्याकर्त्तेत्यर्थः, 'साहसिक : ' अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छन्नचारी 'विश्रम्भघाती' विश्वासघातकः आदीपकः - अग्निदाता तीर्थानि - तीर्थभूतदेवद्रोण्यादीनि भिनत्ति - द्विधा करोति तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः, लघुभ्यां - क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्म्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः,
-'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान् 'निर्गमनानि' निस्सरणमार्गान् ‘द्वाराणि’ प्रतोल्यः ‘अपरद्वाराणि' द्वारिकाः 'छिण्डीः ' छिण्डीकाः- वृत्तिच्छिद्ररूपाः 'खण्डीः ' प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि - नगरजलनिर्गमक्षालान् 'संवर्तनानि' मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि 'द्यूतखलकानि' द्यूतस्थण्डिलानि 'पानागाराणि मद्यगेहानि ‘वेश्यागाराणि’ वेश्याभवनानि 'तस्करस्थानानि' शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः - जनोपवेशनस्थानानि प्रपाः - जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात्, 'पणितशालाः' हट्टान् शून्यगृहाणि - प्रतीतानि 'आभोगयन्' पश्यन् ‘मार्गयन्' अन्वयधर्म्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्म्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु
- 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याद्युपप्लवेषु तथा 'अभ्युदयेषु' राज्यलक्षम्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' वडुलोकभोजनदानादिरूपेषु यज्ञेषु' नागादिपूजासु 'पर्वणीषु' कौमुदी - प्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया प्रमत्तश्च प्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकार्यक्षेपेण सुखितस्य दुःखितस्य च विदेशस्थस्य च - देशान्तरस्थस्य विप्रोषितस्य च-देशान्तरं गन्तुं प्रवृत्तस्य 'मार्गंच' पन्थानं 'छिद्रं च' अपद्वारं 'विरहं च' विजनं अन्तरंच - अवसर - मिति आरामादिपदानि प्राग्वत् 'सुसाणेसु य'त्ति श्मशानेषु 'गिरिकन्दरेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्त्तिपाषाणगृहेषु 'उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रेष्वित्यादि पुनरावर्त्तनीयं यावद् एवं च णं विहरइ' त्ति ।
मू. (४६) तते णं तीसे भद्दाए भारियाए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था - अहं धन्नेन सत्थवाहेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org