________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं -२
८७
अध्ययनं - २ - संघाट :
वृ. अस्य च पूर्वेणं सहायं सम्बन्धः, पूर्वस्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्तः, इह त्वनुचितप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्रं -
मू. (४२) जति णं भंते! समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते बितीयस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वन्नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महंएगे जिष्णुजाणे यावि होत्था विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुम्मलयावल्लिवच्छच्छाइए अनेगवालसयसंकणिज्जे यावि होत्था,
तस्स णं जिन्नुज्ञाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकंच्छए यावि होत्था,
किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूते बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अनेगवालसयसंकणिज्जे यावि होत्था ।
वृ. ‘जइ ण’मित्यादि, कण्ठ्यं ' एवं खल्वि' त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा - वृन्ताकीप्रभृतयः गुल्मा - वंशजालीप्रभृतयाः लताः - अशोकलतादयः वल्लयः - त्रपुषीप्रभृतयः वृक्षाः - सहकारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतैः- श्वापदशतैः शङ्कनीयं - भयजनकं चाप्यभूत्, शङ्कनीयमित्येद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता
- मालुकाकच्छ 'त्ति एकास्थिफलाः वृक्षविशेषाः मालुकाः प्रज्ञापना - भिहितास्तेषां कक्षो-गहनं मालुकाकक्षः, चिरर्भिटकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणादिदं दृश्यं, "नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियडच्छाए "त्ति कृष्णः - कृष्णवर्णः अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते - द्रष्टृणां प्रतिभातीति कृष्णावभासः, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्याशं प्रतिभासते तु सन्निधानविप्रकर्षादेः कारणादन्याद्दशमिति ।
एवं क्वचिदसी नीलो मयूरग्रीवेव क्वचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः, तथा शीतः स्पर्शतः वल्लयाद्याक्रान्तत्वादिति च वृद्धाः, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, छाया च - दीप्तिरादित्य - करावरणजनिता वेति, एवमन्यत्रापि ‘घणकडियडच्छाए’त्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशात् धननिरन्तरच्छायो रम्यो महामेघानां निकुरम्बःसमूहस्तद्वद् यः स महामेघनिकुरम्बभूतः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org