________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३७
तस्यैव मण्डलस्य घातं एवं तृतीयमिति, नलिनीवनविवधनकरे, इह विवधनं विनाशः, 'हेमंते' त्ति शीतकाले कुन्दाः - पुष्पजातीयविशेषाः लोघ्राश्च - वृक्षविशेषास्ते च शीतकाले पुष्यन्त्यतस्ते उद्धताःपुष्पसमृद्धया उद्धरा इव यत्र स तथा, तथा तुषारं-हिमं तत् प्रचुरं यत्र स तथा, ततः कर्मधारयः ततस्तत्र, ग्रीष्मे - उष्णकाले विवर्तमानो - विचरन् वनेषु वनकरेणूनां ताभिर्वा विविधा 'दिन्न' त्ति दत्ताः कजप्रसवैः - पद्मकुसुमैर्घाताः - प्रहारा येषु यस्य वा स तथा 'वनरेणुविविहदिनकय-पंसुधाओ'त्ति पाठान्तरे तु वनरेणवो - वनपांशवो विविधं - अनेकधा 'दिन'त्ति दत्ता दिक्ष्वात्मनि च क्रिडापरतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पांशुघाता येन स तथा ततः पदद्वयस्य कर्म्मधारयः,
७८
'तुमं' ति त्वं, तथा कुसुमैः कृतानि यानि चामरवत्वकर्णपूराणि तैः परिमण्डितोऽभिरामश्च यः तथा, क्वचित् 'उउयकुसुम' त्ति पाठः, तत्र ॠतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि - गण्डतटानि क्लिन्नानि - आर्द्रीकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितगन्धः - मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते ? - दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताःनीरसीकृताः तरुवराः श्रीधराः - शोभावन्तो येन परिशोषिता वा तरुवराणां श्रीः - संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवतां - रवं कुर्वतां भैरवो - भीमो रवः - शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकचवराण्युद्धतानि - उत्पाटितानि येन स तथा सचासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तलं - व्योम 'पडुममाणे 'त्ति पटुत्वादुपतापकारि यस्मिन्, पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैर्दोषिता - जातदोषा दूषिता वा भ्रमन्तो विविधा ये श्वपदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमानो दारुणे ग्रीष्मे, केनेत्याह- मारुतवशेन यः प्रसरः- प्रसणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः,
अभ्यधिकंयथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं - पतनं तेन सिक्त उद्धावमानः - प्रवर्द्धमानो धगधगायमानो - जाज्वल्यमानः स्पन्दोद्धतश्च–दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन - तद्विनाशकारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धश्च विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठा० 'आयवालोय'त्ति तत्र आतपालोकेन - हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा,
आकुञ्चतस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवरकराभोयसव्वभयंतदित्त नयणो' त्ति पाठान्तरं तत्राभोगो-विस्तरः सर्वा दिशो भजन्त दीप्ते नयने यस्येति, वेगेन महामेध इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते - त्वया पुरा - पूर्वं दवाग्निभयभीतहदयेन अपगतानि तृणानि तेषामेव च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org