SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३३ कोष्ठागारं-धान्यगृहआयुधगारं-प्रहरणशाला, बलवंदुब्बलपञ्चमित्ते' प्रत्यमित्राः-प्रातिवेशिकाः, 'ओहयकंटयंनिहयकंटयंगलियकंटयंउद्धियकंटयंअकंटयं कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्धयापहारेण गलिताः मानभङ्गेन उद्ध ता देशनिर्वासनेन अत एवाकण्टकमिति, एवं 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, ___ 'ववगयदुब्भिवक्खमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वानपुनरुक्ततादोषोऽत्र 'रज्जंपसाहेमाणे विहरइत्ति। 'जाया इति हे जात ! पुत्र 'किं दलयामो'त्ति भवतोऽभिमतं कि विघटयामविनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्याः किंदद्मः, तथा भवते एव किंप्रयच्छामः?, किंवातेहियइच्छिय-सामत्थे'त्ति को वा तव हृदयवाञ्छितो मन्त्र इति 'कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रि-तयसंभविवस्तुसंपादक आपणो-हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापितं शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहात्-भाण्डागारात् 'निक्केत्ति सर्वथा विगतमलान् ‘पोत्तियाइ'त्तिवस्त्रेणं महरिहे' त्यादि, 'महरिहेणं'त्ति महतां योग्येन महापूजने वा हंसस्येव लक्षणं-स्वरूपं शुक्लता हंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको-वस्त्रमात्रंस चपृथुलः पटोऽभिधीयतइतिपटशाटकस्तेन सिंदुवारे'त्तिवृक्षविशेषोनिर्गुण्डीति केचित्तकुसुमानि सिन्दुवाराणि तानि च शुक्लानि । ___“एस णं ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु-राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयोदशीप्रभृतिषु क्षणेषुइन्द्रमहादिषु यज्ञेषु-नागादिपूजासु पर्वणीषु च-कार्तिक्यादिषु अपश्चिम-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमंदर्शनं भविष्यति, एतत्केशदर्शनपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिम-पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः। _ 'उत्तरावक्कमणं तिउत्तरस्यां दिश्यपक्रमणं-अवतरणंयस्मात्तदुत्तराप्रक्रमणं-उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चंपि' द्विरपि 'तचंपि' त्रिपपि 'श्वेतपीतैः' रजतसौवर्णेः 'पायपलंब'तिपादौ यावद्यःप्रलम्बतेऽलङ्कारविशेषः सपादप्रलम्बः, 'तुडियाईति बाहुरक्षकाः,केयूबराङ्गदयोर्यद्यपि नामकोशेबाह्यभरणतया न विशेषः तथापीहाकारभेदेन भेदो ६श्यः, 'दशमुद्रिकानन्तकं' हस्ताङ्गुलिसंबन्धि मुद्रिकादशक 'सुमणदामं ति पुष्पमालां पिनध्यतः-परिधत्तः दर्दरः-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्तिमलयोद्भवं श्रीखण्डंतत्संबन्धिःसुगन्धयो-गन्धास्तान् पिनध्यतः,हारादिस्वरूपंप्राग्वत्, ___ग्रन्थिमं यद्ग्रथ्यते सूत्रादिनां वेष्टिमं यद्ग्रथितं सद्वेष्टयते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सायोगिकं-यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतं कृतालङ्करं, विभूषितं-जातविभूषं। 'सद्दावेह जाव सदाविंति' “एगा वरतरुणी'त्यादि श्रृङ्गारस्यागारमिव शृङ्गारगारं अथवा शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सातथा, सङ्गतेषुगतादिषुनिपुणायुक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy