________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१
६३
मृत्तिकाभिरिति। जयजये'त्यादि, जयजयत्वं-जयंलभस्वनन्दतिनन्दयतीतिवानन्दः-समृद्धः समृद्धिप्रा-पको वा तदामन्त्रणं हे नन्द!,एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवत्विति शेषः, इह गमेयावत्करणादिदंश्यं नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसन्निवेसाणंआहेवच्चं पोरेवचं सामित्तं भत्तितं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंती-तलतालतुडियधणमुइंगपडुप्पवाइयरवेणंविउलाइंभोगभोगाइं जमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामःआकरो-लवणाधुत्पत्तिभूमिः अविद्यमानकरंनगरंधूलीप्राकारंखेटंकुनगरं कर्बटं यत्रजलस्थलमार्गाभ्यांभाण्डान्यागच्छन्ति तद्रोणमुखं यत्र योजनाभ्यन्तरेसर्वतो ग्रामादि नास्ति तन्मडम्बं,
पत्तनं द्विधा-जलपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्रतुस्थलेनतत्स्थलपत्तनं, यत्पपर्वतादिदुर्गेलोकाधान्यानि संवहन्तिससंवाहः, सार्थादिस्थानं सनिवेशः,आधिपत्यं अधिपतिकर्मरक्षेत्यर्थः, 'पोरेवच्चं' पुरोवर्त्तित्वमग्रेसरत्वमित्यर्थःस्वामित्वंनायकत्वं भर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महता-प्रधानेन 'अइहय'त्ति आख्यानप्रतिबद्धं नित्यानुबन्धं वा यन्नाट्यं च-नृत्यं गीतंच-गानंतथा वादितानि यानि तन्त्रीच-वीणा तलौ च-हस्तौ तालश्च-कंसिका तुडितानिच-वादित्राणि तथा घनसमानध्वनिर्यो मृदङ्गः पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां यो रवस्तेनेति, इतिकट्ठइतिकृत्वाएवमभिधाय जय २ शब्दं प्रयुङ्कते श्रेणिकराज इति प्रकृतं,
ततोऽसौ राजाजातः, महया' इहयावत्करणात्एवंवर्णको वाच्यः- “महयाहिमवन्तमहंतमलयमंदरमहिंदसारे अचंतविसुद्धदीहरायकुलवंसप्पसूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिएमुद्धाभिसित्ते' पित्रादिभिर्मूर्द्धन्यभिषिक्तत्वात् 'माउपिउसुजाएदयपत्ते' दयावानित्यर्थः, सीमंकरेमर्यादाकारित्वात्सीमंधरेकृतमर्यादापलकत्वात्, _ -एवंखेमंकरेखेमंधरे, क्षेमं अनुपद्रवता, 'मणुस्सिंदेजणवयपिया' हितत्वात् 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे मार्गदर्शकः केउकरे अद्भुतकार्याकारित्वात् केतुः-चिह्न, 'नरपवरे' नराः प्रवराः यस्येतिकृत्वा, पुरिसवरे' पुरुषाणांमध्येवरत्वात्, 'पुरिससीहे' शूरत्वात्, 'पुरिसआसीविसे' शापतमर्थत्वात्, 'पुरिसपुंडरीए' सेव्यत्वात्, 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् 'अड्डे' आढ्यः 'दित्ते' दपर्वान् ‘वित्ते' प्रतीतः 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नं विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा,
'-आयोगपयोगसंपउत्ते' आयोगस्य अर्थलाभस्यप्रयोगा-उपायाः संप्रयुक्ता-व्यापारिता येन सतथा विच्छड्डियपउरभत्तपाणे' विच्छर्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविच्छेद्द वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्वासौ गोमहिपीगवेलगप्रभूतश्चेति समासः, गवेलका-उरभ्राः, 'पडिपुण्णजंतकोसकोट्ठगाराउहागारे' यन्त्राणि-पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org