________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बहवीभिः विषयाणां शब्दादीनामनुलोमाः-तेषु प्रवृत्तिजनकत्वेन अनुकूला विषायनुलोमास्ताभिः आख्यापनाभिश्च-सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्व-संबोधनाभिर्विज्ञापनाभिश्चविज्ञप्तिकाभिश्च सप्रमणयप्रार्थनः, चकाराः समुच्चयार्थाः,आख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुं वा विज्ञापयितुंवान शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादिविषयाणां परिभोगनिषेधकत्वेन प्रतिलोमाभिःसंयमाद्भयमुद्वेगंच-चलनं कुर्वन्तियास्ताः संयमभयोद्वेगकारिकाः-संयमस्य दुष्करत्वप्रतिपादन-परास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्ती एवमवादिष्टाम्
निग्गन्थे' त्यादि, निर्ग्रन्थाः-साधवस्तेषामिदं नैर्ग्रन्थं प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यंसद्भूतंवानास्मादुत्तरं-प्रधानतरंविद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरंभविष्यतीत्याह-कैवलिकंकेवलं -अद्वितीयं केवलिप्रणीतत्वाद्वा कैवलिकं प्रतिपूर्ण-अपवर्गप्रापकैर्गुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं-सामस्त्येन शुद्धमेकान्ता- कलङ्गमित्यर्थः शल्यानि-मायादीनि कृन्ततीति शल्यकर्तनं सेधनं सिद्धिःहितार्थप्राप्तिस्तन्मार्गःसिद्धिमार्गः मुक्तिमार्गः-अहितकर्मविच्युतेरुपायःयान्तितदितियानंनिरुपम यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणंसकलकर्मविरहजसुखमितिसर्वदुःखप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तोनिश्चयोयस्याः साएकान्तासाष्टि:-बुद्धिर्यस्मिन्निर्गन्थेप्रवचने-चारित्रपालनंप्रतितदेकान्तष्टिकं,
अहि पक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः-दक् यस्य स एकान्तष्टिकः, क्षुरप्राइव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करंचरणमितिभावः, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गॉव दुस्तरप्रवचनमनुपालयितुमिति भावः,
एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खङ्गकुन्तादिकं चंक्रमितव्यं-आक्रमणीयं यदेतप्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकंलम्बयितव्यं-अवलम्बनीयंप्रवचनंगुरुकलम्बनमिवदुष्करंतदितिभावः, असिधारायांसञ्चरणीयमित्येवंरूपंयव्रतं-नियमस्तदसिधाराव्रतंचरितव्यं आसेव्यं यदेतप्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थः,
कस्मादेकतस्य दुष्करत्वमत उच्यते-'नोय कप्पईत्यादि, 'रइएव'त्ति औद्देशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतयारचितंभक्तमिति गम्यते, दुर्भिक्षभक्तंयद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरंकान्तारं-अरण्यवर्दलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददातितद्ग्लानभक्तं, मूलानिपद्मसिन्नाटिकादीनांकन्दाः-सूरणादयः फलानि-आम्रफलादीनिबीजानि-शाल्यादीनि हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा पातुं वा नालं-न समर्थः शीताद्यधिसोदुमिति योगः रोगाः-कुष्ठादयः आतङ्काः-आशुघातिनःशूलादयः उच्चावचान्-नानाविधान् ग्रामकण्टकान्इन्द्रियवर्गप्रतिकूलान्, “एवं खलु अम्मयाओ !' इत्यादि, यथा लोहचर्वणाधुपमया दुरनुचरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org