________________
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१/३२
जीवितोच्छ्वासः स एव जीवितोच्छ्वा-सिकः, वाचनान्तरे तु जीविउस्सइएत्ति - जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हदयानन्दजननः उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमानं, 'जाव ताव अम्हेहिं जीवामो 'त्ति इह भुङ्घवतावद्मोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योच्चारणं तद्भापामात्रमेवेति, परिणतवया 'वड्ढियकुलवंसतंतुकज्जुंमि' वर्द्धिते - वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घत्वसाधम्यात् कुलवंशतन्तुः स एव कार्यं कृत्यं तस्मिन्,
ततो 'निरवएक्खे' त्ति निरपेक्षः सकलप्रयोजनानां 'अधुवे 'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले अवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात्, अशाश्वतः क्षणविनश्वरत्वाद् व्यसनानि-द्यूतचौर्यादीनि तच्छतैरुपद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽभिभूतो- व्याप्तः, शटनं- कुष्ठादिना अङ्गुल्यादेः पतनं - बाह्यदेः खङ्गच्छेदादिना विध्वंसनं - क्षयः एते एव धर्म्मायस्य स तथा पश्चात् विवचितकालात्परतः पुरं च ' त्ति पूर्वतश्च णमलंकृतौ ' अवस्सविप्पजहणिजे;' अवश्यत्याज्यः । 'से के णं जाणइ' त्ति अथ को जानाति ?, न कोऽपीत्यर्थः,
५८
अंबातातक ! पूर्वं - पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति कः पूर्व को वा पश्चात्प्रियते इत्यर्थः वाचनान्तरे मेघकुमारभार्यावर्णक एवमुपलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसव्वकाललालियसुहोइयाओ मद्दवगुणजुत्तनिउणविण - ओवयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपण्डिता इत्यर्थः 'मंजुलमियमहुरभणियहसियविप्पेक्खियगइविलासवट्ठियवसारायाओ' मञ्जुलं- कोमल शब्दतः मितं-परिमितं मधुरं - अकठोरमर्थतो यद्भणितं तत्तथाऽवस्थितं-विशिष्टस्थितिशेषं कण्ठयं 'अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुबद्धणपगब्मुब्भवुप्पभाविणीओ' - - विशुद्धकुलवंश एव सन्तानतन्तुः - विस्तारवत्तन्तुः तद्वर्द्धना प्रकृष्टा गाः - पुत्रवरगर्भास्तेषां य उद्भवः- संभवस्तल्लक्षणो यः प्रभावो - माहात्मयं स विद्यते यासां ताः तथा 'मनोनुकूलहिय-यइच्छियायो' - मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्म्मधारयः अट्ठ तुज्झगुणवल्लहाओ-गुणैर्वल्लभा यास्तास्तथा 'भज्जाओ उत्तनाओ निच्चं भावानुरत्ता सव्वंगसुंदरीओ' त्ति 'माणुसगा कामभोग' त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणत्वात् वान्तं वमनं तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो - निष्ठीवनं शुक्रं - सप्तमो धातुः शोणितं - रक्तं दुरूपाणि - विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः उच्चारः - पुरीषं प्रवणं - मूत्रं खेलः - प्रतीतः सिंघानो - नासिकामलः वान्तादिकानि प्रतीतान्येतेभ्यः संभवः - उत्पत्तिरेयेशां ते तथा 'इमे य ते' इत्यादि,
इदं च ते आर्यकः - पितामहः प्रार्यकः - पितुः पितामहः पितृप्रार्यकः - पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकप्रार्यकपितॄणां यः पर्यायः परिपाटिरित्यनर्थान्तरं तेनागतं यत्तत्तथा, 'अग्गिसाहिए' त्यादि, अग्नेः स्वामिनश्च साधारणं 'दइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह - 'अग्गिसामण्णे; 'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं - वर्णादिविनाशः विध्वंसनं च प्रकृतेरुच्छेदः धर्म्मो यस्यतत्तथा, 'जाहे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org