________________
द्वारं - २, अध्ययनं ४,
एक्कमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं,
सीलं तवो य विनओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं
वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तोय'त्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं ‘बंभचेरं 'ति ब्रह्मचर्याभिधानं चतुर्थं संवरद्वारमुच्यते इति शेषः, किंस्वरूपं तदित्याह - उत्तमाः- प्रधाना ये तपःप्रभृतयस्ते तथा, तत्र तपः - अनशनादि नियमाःपिण्डविशुद्धयादयः उत्तरगुणाः ज्ञानं विशेषबोधः दर्शनं - सामान्यबोधः चारित्रं - सावद्ययोगनिवृत्तिलक्षणं सम्यकत्वं - मिथ्यात्वमोहनीय क्षयोपशमादिसमुत्थो जीवपरिणामः विनयःअभ्युत्थानाद्युपचारः तत एतेषां मूलमिव मूलं कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि तपः प्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह
119 11
"जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा । पत्यंतो अ अबंभं बंभावि न रोयए मज्झ ॥
॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियमंतिओवि न कुणइ अकजं ॥”
यमा-अहिंसादयः नियमाः - द्रव्याद्यभिग्रहाः पिण्डविशुद्धयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्त यत्तत्तथा, 'हिमवन्तमहंततेयमंतं' ति हिमवतः पर्वतविशेष षात् सकाशात् महत्-गुरुकं तेजस्वि-प्रभावत् यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च
119 11
"व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते ॥” - तच्चान्तरीयैरप्युक्तं -
|| 9 ||
४९१
“एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः । एकतः सर्वपापानि, मद्यं मांसं च एकतः ॥"
प्रशस्तं - प्रशस्यं गम्भीरं - अतुच्छं स्तिमितं- स्थिरं मध्यं - देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः–ऋतुतोपेतैः साधुजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गे यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गो इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यदैन्यादिविकारैः स्तिमितैःकायचापलादिरहितैः मध्यस्थैः - रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा - रागादिदोषरहितत्वेन निर्मला य सिद्धिः - कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः - जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International