________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२५ दायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसबन्धिनी सा स्थितिपतिता तां,
-वाचनान्तरे 'दसदिवसियं ठियपडिय'न्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा, 'सएहिं'तिशतपरिमाणैः, 'दायेहितिदानैः,वाचनान्तरेशतिकांश्चेत्यादि, यागान्-देवपूजा, दायान-दानानि भागान्-लब्धद्रव्यविभागनिति, प्रथमे दिवसेजातकर्म-प्रसवकर्मनालच्छेदननिखननादिकं द्वितीयदिने जागरिकां-रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एत इति, पाठान्तरे तुप्रथमदिवसे स्थितिपतितांतृतीयेचंद्रसूर्यदर्शनिकांषष्ठे जागरिकां 'निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते-अशुचीनांजातकर्णा करणे निव्वत्ते सुइजायकम्मकरणे'त्ति वा पाठान्तरं,
तत्र निर्वृत्ते कृते शुचीनां जामतकर्मणां करणे 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्यां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि-सुहृदःज्ञातयो-मातापितृभ्रात्रादयः निजकाः-स्वकीयाः पुत्रादयःस्वजनाः-पितृव्यादयः सम्बन्धिनः-श्वशुरपुत्रश्वशुरादयः परिजनो-दासीदासादिः बलंच-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, महइमहालइत्तिअतिमहति, आस्वादयन्तावास्वादनीयं,परिभाजयन्तौ अन्येभ्यो यच्छन्तौमातापितरावितिप्रक्रमः, जेमिय'त्तिजैमितौमुक्तवन्तौ, 'भुत्तुत्र'त्तिभुक्तोत्तर-भुक्तोत्तरकालं आगयत्तिआगतावुप-वेशनस्थानेइतिगम्यते, समाणेत्तिसन्ती, किंभूतीभूत्वेत्याह?-आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे'त्ति इदमेतद्रूपं गौणं कोऽर्थो ?-गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति।
क्षीरधात्र्या-स्तन्यायिन्या मण्डनधात्र्या-मण्डिकया मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडनकारिण्या अधात्र्याउत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजङ्घाभिः चिलातीभिः-अनार्यदशोत्पन्नाभिवमिनाभिः-इस्वशरीराभिः वटभाभिःमहत्कोष्ठाभिःबर्बरीभिःबर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकाभिः ईसिनिकाभिः घोरुकिनिकाभिः लासिकाभिः लकुसिकाभिर्द्राविडीभिःसिंहलीभिः आरबीभिः पुलिन्द्रीभिः पक्वणीभिःबहलीभिः मुरुंडीभिः शबरीभिः पारसीभिः 'नानादेशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थः विदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकाभिः, इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः,
-निपुणानां मध्ये कुशलायास्तास्तथा ताभिः, अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृता- नामन्तः पुरमहल्लकानां 'कंचुइज्जत्ति कंचुकिनामन्तः पुरप्रयोजननिवेदकानां प्रतीहाराणांवामहत्तरकाणांच-अन्तःपुरकार्यचिन्तकानांवृन्देनपरिक्षिप्तोयःसतथा, हस्तद्धस्तं-ह स्तान्तरं संहियमाणः अङ्कादक-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधबालोचित- गीतविशेषैः उपलाल्यमानः क्रीडादिलालनया, पाठान्तरे तु 'उवणचिजमाणे २ उवगाइजमाणे २ उवलालिज्जमाणे २ अवगृहज्जमाणे' २ आलिङ्गयमान इत्यर्थः,
'अवयासिज्जमाणे' २ कथञ्चिदालिङ्गयमान एव, 'परिवंदिजमाणे २ स्तूयमान इत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org