________________
द्वारं - २, अध्ययनं -२,
४७५
सिध्यन्तिति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं - प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं 'तं सच्चं उज्जुगं' ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्त्तितत्वात् तथा अकुटिलं अकुटिलस्वरूपत्वात् भूतः - सद्भूतोऽर्थः - अभिधेयो यस्य तद्भूतार्थं अर्थतः - प्रयोजनतो विशुद्धं - निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह- सर्वभावनां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि - अव्यभिचारि यथार्थमितिकृत्वा मधुरं - कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाश्चर्यकारकं - चित्तविस्मयकरकार्यकारकं तदीदृशं केषु केषामित्याह - अवस्थान्तरषु - अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह“सत्येनाग्निर्भवेच्छती, गाधं दत्तेऽम्बु सत्यतः । नासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ॥ "
|| 9 ||
एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावित्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियं' ति अग्रं तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि -सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न वुज्झइ' त्ति वचनपरिणामान्तोरह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताधं च - गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि - प्रदीपनकेऽपि न दह्यन्ते, ऋजुका - आर्जवोपेताः मनुष्या - नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति 'त्ति छुपंति धारयन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च म्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खङ्गशक्तिव्यग्रकर-रिपुरुषवेष्टिता इत्यर्थः समरादपि-रणादपि 'निंति' त्ति निर्यान्ति-निर्गच्छन्ति, अनघाश्च - अक्षतशरीरा इत्यर्थः,
"
--
के इत्याह सत्यवादिनः - सत्यप्रतिज्ञाः वदबन्धाभियोगवैरधोरेभ्यः - ताडनसंयमनबलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् - शत्रुमध्यान्निर्यान्ति अनघाश्च - निर्दोषाः सत्यवादिनः, सादेव्यानि च - सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च119 11 "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतपदमिमार्थयति च । सुराः सत्यद्वाक्याद्दतति मुदिताः कामिकफलमतः सत्याद्वाक्याद्व्रतमभिममतं नास्ति भुवने ।।"
'त’मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्ट्रक्तं दशविधं - दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणांच समयेन - सिद्धान्तेन 'पइन्नं'ति प्रदत्तं समयप्रतिज्ञा वा- समाचारभ्युपगमः, पाठान्तरे 'महरिसिसमय पइन्नचिन्नं'ति महर्षिभिः समयप्रतिज्ञा-सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तसत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रा दीनां भाषिताः अर्था - जीवदयो जिवनचनरूपेण येन तत्तथा, तथा वैमानिकानां ससाधितं - प्रतिपादितमुपा देवतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org