________________
४७६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६
जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं कृतमासेवितं समर्थितं वा यत्तत्तथा,
महार्थं - महाप्रयोजनं, एतदेवाह - मन्त्रौषधीविद्यानां साधनमर्थ; -- प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं- स्तुत्यं अमरगणानां चार्चनीयं - पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं - नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् यथावद्वस्तुप्रकाशनात् तेजस्विनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात्
येऽविच लोकेऽपरिशेषा - निः शेषा मन्त्राः - हरिणेगमेषिमन्त्रादयः योगाः - वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च - प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच - नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च - अर्थशास्त्रादीनि शस्त्राणि वा - खङ्गदीन्य क्षेप्यायुधानि शिक्षाश्च - कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकंबाधकं किञ्चिद्- अल्पमपि न वक्तव्यं,
किंरूपं तदित्याह-हिंसया - जीववधेन सावद्येन च - पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च
|| 9 ||
"तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए ।”
भेदः - चारित्रभेदस्तत्कारिका विकथाः - स्त्र्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थवादो - निष्प्रयोजनो जल्पः कलहश्च - कलिस्तत्कारकं यत्तत्तथा, अनार्यं -अनार्यप्रयुक्तं अन्याय्यं च - अन्यायोपेतं अपवादः परदूषणाभिधानं विवादो - विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्बं-परेषां विडम्बनकारी ओजो - बलं धैर्यं च - धृष्टता ताभ्यां बहुलं - प्रचुरमोजोधैर्यबहुलं निर्लज्जं - अपेतलज्जं लोकगईणीयं निन्द्यं दुष्टं - असम्यगीक्षितं दुः श्रुतं - असम्यगाकर्णितं दर्मुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा - गर्हा,
निन्दामेवाह - 'नसि 'त्ति नासि न भवसि त्वमिति गम्यते मेधावी - अपूर्वश्रुत ध्ष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो- धनं लब्धा तथा नासि - न भवसि प्रियधर्म्मा-धर्म्मप्रियः तथा न त्वं कुलीनः–कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि - न भवसि प्रतिरूपो - रपवान् न त्वमसि लष्टः - सौभाग्यवान् न पण्डितोबुद्धिमान् न बहुश्रुतः- आकर्णिताधी तबहुशास्त्रः बहुसुतो वा - बहुपुत्रो बहुशिष्यो वा नापि च 'त्वं तपस्वी - क्षपकः न चापि परलोकविषये निश्चिता - निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि - भवसि सर्वकालं - आजन्मापीति, किं बहुनोक्तेन ?,
वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति,, इह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International