________________
द्वारं-२, अध्ययनं-१,
४६३
नवहि यकोडिहिं सुपरिसुदं दसहि य दोसेहिं विप्पमुकं उग्गमउप्पयणेसणासुद्धं ववगयचुयचावियचत्तदेहं च फासुयंच ननिसज्जकहापओयणखासुओवणीयंति न तिगिच्छा-मंतमूलभेसज्जकजहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्खणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं
-नवि हीलणाते नवि निंदणाते नवि गरहगाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वंनविभेसणाते नवि तज्जणाते नवितालणाते नविभेसणतज्जणतालनाते भिक्कंगवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्कं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं
-अन्नाएअगढिए अदुढे अदीने अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउत्तेभिक्खूभिक्खेसणाते निरते, इमंचणं सव्वजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पच्चाभावियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विउसमणं
वृ. एषा भगवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं'ति पक्षिणामिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शरणादिसमैव सा?,
नेत्याह-‘एत्तो'त्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा अहिंसा हिततयेति गम्यते, शरणादितो हितमनेकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतंमोक्षावाप्तिरिति, तथा 'जासा' इत्यादि याऽसौ पृथिव्यादीनिच पञ्च प्रतीतानि बीजहरितानि च वनस्पतिविशेषाः आहारार्थत्वेन प्रधानतया शेषवन्स्पतेर्भेदेनोक्ताः जलचरादीनि च प्रतीतानि यानित्रसस्थावराणि सर्वभूतानि तेषां क्षेमङ्करी यासा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिकैः कल्पिता॥१॥ “कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् ।
सर्वथा सर्वयत्नेन, भूयिष्ठमुदकं कुरु ॥" इह गोविषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपान सम्यगहिंसेति॥अथ यैरियमुपलब्धा सेविताच तानाह–'जा से'त्यादि अपरिमितज्ञानदर्शनधरैरितिकण्ठ्यं, शीलं समाधानांतदेवगुणः शीलगुणः तंविनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैःसर्वजगद्वत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिनचन्द्रैः-कारुणिकनिशाकरैः सुष्टुष्टा-केवलावलोकेन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरुपदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः,प्रमत्तयोगात्प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः स्वरूपं स्वर्गापवर्गप्परप्तिलक्षणंच कार्यमिति, तथा अवधिजिना-विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता
ज्ञपरिज्ञया बुदा प्रत्याख्यानपरिज्ञा च सेविता, ऋची-पनोमात्रग्राहिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org