________________
द्वारं-२, अध्ययनं -१,
४५९
नुपादानं तस्य द्वाराणीव द्वाराणि उपायाः संवरद्वाराणि पञ्च वक्ष्यामि - भणिष्यामि आनुपूर्व्याप्राणातिपातविरमणादिक्रमेण यथा भणितानि भगवता - श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रेणेह साधर्म्य न तु युगपत्सकलसंशयव्वच्छेदसर्वस्वभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदुःखविमोक्षणार्थमिति ॥ १ ॥
मू. (३१)
पढमं होइ अहिंसा बितियं सच्चवयणंति पन्नत्तं । दत्तमणुत्राय संवरो य बंभचेरमपरिग्गहत्तं च ॥
वृ. 'पढमं' गाहा, प्रथमं संवरद्वारं भवति अहिंसा द्वितीयं सत्यवचनमित्येवंभूतनामकं प्रज्ञप्तं - प्ररूपितं दत्तं-वितीर्णमशनादि अनुज्ञातं - भोग्यतयैव वितीर्णं पीठफलकावग्रहादि न त्वशनादिवद्दत्तं ग्राह्यमिति शेषः, 'संवरो' त्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरशब्दं विना गाथापश्चार्द्ध प्रसिद्धलक्षणं भवति, न च संवरशब्दवर्जिता काचिद्वाचनोपलभ्यते, तथा ब्रह्मचर्यं अपरिग्रहत्वं च चतुर्थपञ्चमौ संवराविति ॥
मू. (३२)
तत्थ पढमं अहिंसा तसथावरसव्वभूयखेमकरी । तीसे सभावणाओ किंची वोच्छं गुणुद्देसं ॥
वृ. 'तत्थ' गाहा, तत्र - तेषु पञ्चसु मध्ये प्रथमं सेवरद्वारमहिंसा 'तसथावरसव्वभूयखेमकरि'त्ति त्रसस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः सभावनायास्तुभावनापञ्चतकोपेताया एव 'किंचि' त्ति किञ्चनाल्पं वक्ष्ये गुणोद्देशं - गुणदेशमिति ।
मू. (३३) ताणि उ इमाणि सुव्वय ! महव्वयाइं लोकहियसव्वयाइं सुयसागरदेसियाइं तवसंजममहव्वयाइं सीलगुणवरव्वयाई सनज्जवव्वयाइं नरगतिरियमणुयदेवगतिविवज्जकाइं सव्वजिनसासणगाई कम्मरयविदारगाई भवसयविनासनकाइं दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराइं सप्पुरिसनिसेवियाइं निव्वाणगमणसग्गप्पणायकाइं संवरदाराइं पंच कहियाणि उ भगवया ।
तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवति दीवो ताणं सरणं गती पइट्टा निव्वाणं १ निव्वुई २ समाही ३ सत्ती ४ कित्ती ५ कंती ६ रती य ७ विरती य ८ सुयंगतित्ती ९ - १० दया ११ विमुत्ती १२ खंती १३ सम्मत्ताराहणा १४ महंती १५
बोही १६ बुद्धी १७ धिती १८ समिद्धी १९ रिद्धी २० विद्धी २१ ठिती २२ पुट्ठी २३ नंदा २४ भद्दा २५ विसुद्धी २६ लद्धी २७ विसिट्टदिट्ठी २८ कल्लाणं २९ मंगलं ३०
पमोओ ३१ विभूती ३२ रक्खा ३३ सिद्धावासो ३४ अनासवो ३५ केवलीण ठाणं ३६ सिवं ३७ समिई ३८ सील ३९ संजमो ४० त्ति य सीलपरिघरी ४१ संवरो ४२ य गुत्ती ४३ ववसाओ ४४ उस्सओ ४५ जन्नो ४६
आयतणं ४७ जत्तण ४८ मप्पमातो ४९ अस्सासो ५० वीसासो ५१ अभओ ५२ सव्वस्सवि अमाघाओ ५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९ य निम्मलतर ६० त्ति एवमादीणि नियमुणविम्मियाइं पजवनामाणि होति अहिंसाए भगवतीए ।
वृ. सम्प्रति सविशेषणमनन्तरोदितमेवार अर्थं गद्येनाह - 'ताणि उ'त्ति यानि संवरशब्देनाभिबहितानि तानि पुनरिमानि - वक्ष्यमाणानि, हे सुव्रत ! -- शोभनव्रत ! जंबूनामन् ! महान्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org