SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४५८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२५ कर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं ‘अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसार' भवमिति॥ मू. (२६) सव्वगई०, वृ. सव्वगई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनांप्रस्कान्दा-गमनानि सर्वगतिप्रस्कन्दास्तान्करिष्यन्तिअनन्तकान्-अनन्तान्अकृतपुण्याः-अविहिताश्रवनिरोध-लक्षणपवित्रानुष्ठानाः येचनश्रण्वन्तिधर्मं श्रुतरूपंश्रुत्वाचयेप्रमाद्यन्ति-लथयन्ति श्रुतार्थं-संवरात्मकंनानुतिष्ठन्तीत्यर्थः ।। मू. (२७) अनुसिटुंपि, वृ. 'अनुसिट्टि' गाहा अनुशिष्टमपि-गुरुणोपदिष्टमपि बहुविधं-बहुप्रकारं धर्ममिति सम्बन्धः, पाठान्तरेणअनुशिष्टाः-अनुशासिताः बहुविधंयथा भवति मिथ्यादृष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्रबद्ध-प्रदेशेषुसंश्लेषितं निकाचितं-दृढतरंबद्धं उपशमनादिकरणानामविषयीकृतमिति भावः, श्रृवन्ति केवलमनुवृत्त्यादिना धर्म-श्रुतरूपं न च-न पुनः कुर्वन्ति-अनुतिष्ठन्तीति॥ मू. (२८) किं सक्का० ७. 'किं सक्का' गाहा, किं शक्यं कर्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्यस्मानेच्छथ-नेप्सथ औषधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुं-आपातुं, किंरूपमषधमित्याह-जिनवचनं गुणमधुरं विरेचनं त्यागकारि सर्वदुःखानाम् ।। मू. (२९) पंचेव० वृ. पञ्चैव-प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा-त्यक्त्वा पञ्चैवप्राणातिपातविरमणादिसंवरान् रक्षित्वा-पालयित्वा भावेन–अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा-सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां-सर्वोत्तमां यान्ति-गच्छन्ति ।। अध्ययनं– ५ – समाप्तम् अधर्मद्वारः समाप्तम्: मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (संवरद्वारः) -संवर द्वारे-अध्ययनं-१-अहिंसाःवृ. उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानांसंवराणांप्रथमहिंसालक्षणंसंवरमभिधातुकामस्तत्प्रतावनार्थं शिष्यमामन्त्र्येदमाहमू. (३०) (जंबू!)-एत्तो संवरदाराई पंच वोच्छामि आणुपुब्बीए। जह भणियाणि भगवया सव्वदुहविमोक्खणट्टाए । वृ. 'जंबु'त्ति हे जम्बू! 'एत्तो' गाहा इतः-आश्रवद्वारभणनान्तरं संवरणं संवरः-कर्मणाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy