________________
४६०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३
करणत्रययोगत्रयेण यावज्जीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानिनियमा महाव्रतानि
___ 'लोए धिइअव्वायाइंति लोके धृतिदानि-जीवलोकचित्तस्वास्थ्यकारीणि व्रतानि यानि तानितथा, वाचनान्तरे-‘लोयहियसव्वयाइं तितत्रलोकाय हितंसर्वंददति यानि तानि, श्रुतसागरे देशितानि यानितानितथा, तथा तपः-अनशनादिपूर्वकर्मनिर्जरणफलंसंयमः पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलस्तद्रूपाणिव्रतानितपःसंयमयोर्वानास्ति व्ययः-क्षयो येषुतानि तपःसंयमाव्ययानि
तथा शील-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानिशीलगुणवराव्यायानि वाअथवा शीलस्य गुणवराणांच-वरगुणानां व्रजःसमुदायोयेषुतानिशीलगुणवरव्रजानि, तथा सत्यं मृषावादवर्जनंआर्जव-मायावर्जनंतप्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तिमोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा,
सर्वैर्जिनैः शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानितथा, भवशतविनाशकानि अतएव दुःखशतविमोचनकानिसुखशतप्रवर्तकानीतिचकण्ठ्यं, कापुरुषैः, दुःखेनोत्तर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ‘सप्पुरिसतीरियाईति सत्पुरुषप्राप्तीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः,
बहुचेहवाच्यंतच्च ग्रन्थातरेभ्योऽवसेयं, 'विन्नाणगमणमग्गसग्गपणायगाईतिनिर्वाणगमने मार्ग इव मार्गो यानि तानि तथा स्वर्गे च देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, क्वचित् 'सग्गपयाणगाइंतिपाठः तत्रस्वर्गेगन्तव्येप्रयाणकानीव-गमनानीवयानितानिस्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च,
एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भवन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना। ___अथप्रथमसंवरनिरूपणायाह-'तत्थे' त्यादि, तत्र-तेषुपञ्चसुसंवरद्वारेषुमध्येप्रथमं आधे संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'त्ति द्वीपो दीपो वायथाऽगाधजलधिमध्यमग्नानां स्वैरंश्वापदकदम्बकदर्थितानां महोर्मिलामामध्यमानगात्राणां त्राणंभवति द्वीपःप्राणितांएवमियमहिंसा संसारसागरमध्यमधिगतानांव्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथावादीपोऽन्धकारनिराकृतहकप्रसराणंहेयोपादेयार्थहानोपादानविमूढमनसांतिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभवत्येवमहिंसाज्ञानावरणादिकर्मतमिंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्ततनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता,
___-तथा त्राणं स्वपरेषामापदः संरक्षणात्तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यतेश्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org