SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्ते पद्मपत्रवच्च सुकुमाले तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला - अवक्रा क्वचिदभ्युन्नता - अग्रे उच्चा ऋजुः - सरला तुङ्गाच उच्चा तदन्यत्र नासा - घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-3 -आदित्यबोध्यं कुमुदं च चन्द्रविकाश्यं कुवलयं च - नीलोत्पलं पद्मं एषां यो दलनिकस्तत्सदशे लक्षणप्रशस्ते अजिह्मे-अमन्दे कान्ते नयने यासां तास्तथा, आनामितचापवद्रुचिरे कृष्णाभ्रराज्या सङ्गते - अनुगते सध्श्यावित्यर्थः सुजाते तनू कृष्णे स्निग्धे च भ्रुवौ यासां तास्तथा, आलीनप्रमाणयुक्त श्रवणाः सुश्रवणा इति च प्राग्वत्, पीना - उपचिता मृषा - शुद्धा गण्डरेखा - कपोलपाली यासां तास्तथा, चतुरङ्गुलं- चतुरङ्गुलमानं विशालं - विस्तीर्णं समं - अविषमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी तस्या यो रजनीकरः - चन्द्रस्तद्वद्विमलं परिपूर्णं सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्धदीर्घशिरोजा इति कण्ठ्यं, ४४४ छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि ‘दामणि’त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः - कच्छपः १३ रथवरो १४ मकरध्वजः - कामदेवः १५ अंको - रूढिगम्यः १६ स्थालं १७ अङ्कुशः १८ अष्टापदं - द्यूतफलकं १९ सुप्रतिष्ठकं - स्थापनकं २० ( अमर ) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं - वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श; - वरदर्पणः २८ सललिताश्च - लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, हंससदक्षगतयः कोकिलमधुरगिरश्चेति कण्ठ्यं, कान्ताः - कमनीयाः सर्वस्य जनस्य अनुमताः–अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छिरिताः किञ्चिन्यूनत्रिगव्यतोच्छ्रिता इत्यर्थः शृङ्गारस्य- रसविशेषस्य अगारमिवागारं चारुवेषाश्च - सुनेपथ्याः, ततथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन - स्पृहणीयतया रूपेण - आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो - देव्यः तत्र नन्दनवनं - मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्रसरो यास्तासतथा आश्चर्यं - अद्युतमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी' त्यादि 'कामाणं 'ति यावत्कण्ठ्यं, उक्तं च ॥१॥ , "तिर्यञ्चो मानवा देवाः केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ॥” तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो दर्शिताः । अथ यथा तत्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मू. (२०) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेक्कं विसयविस उदीरएसु, अवरे परदारेहिं हम्मंति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसा मिगा य मारेति एक्कमेक्क, मणुयगणा वानरा य पक्खी य विरुज्झंति, मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणेय भिंदंति पारदारी, धम्मगुणरया यं बंभयारी खणेण उल्लोट्ठए चरित्ताओ जसमंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy