________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ पिण्डिकायमानं अग्रशिरः- शिरोऽग्रं येषां ते तथा, हुतवहेन निध्यातं घौतं तप्तं च यत्तपनीयं - रक्तवर्णं सुवर्णं तद्वद्रक्ता-लोहिता 'केसंत' त्ति मध्यकेशा केशभूमिः --मस्तकत्वग् येषां ते तथा, शाल्मली - वृक्षविशेषस्तस्य यत्पौण्डं - फलंघननिचितं - अत्यर्थं निबिड छोटितं चः घट्टितं तद्वन्मृदवःसुकुमाराः विशदाः– विस्पष्टाः प्रशस्ता - मङ्गल्याः सूक्ष्माः श्लक्ष्णाः लक्षणाः - लक्षणवन्तः सुगन्धयःसद्गनधाः सुन्दराः - शोभनाः भुजमोचको - रत्नविशेषस्तद्वत् भृङ्गः- कीटविशेस्तद्वन्नीलोरत्नविशेषः स इव कज्जलमिव प्रहष्टभ्रमरगणः प्रमुदितमधुकरनिकरः स इव च स्निग्धाः - कालकान्तयः निकुरुम्बाः - समूहरूपाः निचिता - अविकीर्णाः कुञ्चिताः - वक्राः प्रदक्षिणावर्त्ताश्चअवामवृत्तयो मूर्धनि-शिरसि शिरसिजा:- केशा येषां ते तथा,
सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येव खरः - शब्दः षड्जादिर्वा येषां ते तथा, एवमन्यान्यपि, नवरं ओधेन- अविच्छेदेनावित्रुटितत्वेन स्वरो येषां ते तथा, तथा सुष्ठु स्वरस्य शब्दस्य निर्दोष-निर्ह्रादो येषां ते तथा, वाचनान्तरे सिंहघोषादिकानि विशेषणानि पठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं - अस्थिसञ्चयरूपं येषां ते तथा, तत्र119 11
४४२
"रसहो उ होइ पट्टो वज्रं पुण कीलिया वियाणाहि । उभओ मक्कडबन्धो नारायं तं वियाणाहि ॥”
समचतुरनाभिधानेन संस्थानेन संस्थिता ये ते तथा, तत्र समचतुरस्रत्वमूर्ध्वकायाधः काययोः समग्रस्वस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, 'पसत्थच्छवि'त्ति प्रशस्तत्वचः निरातङ्काः-नीरोगाः कङ्कस्येव - पक्षिविशेषस्येव ग्रहणी - गुदाशयो नीरोगवर्च्चस्कतया येषां ते तथा, कपोतस्येव-पक्षिविशेषस्येव परिणामः- आहारपरिणतिर्येषां ते तथा, कपोतानां हि पाषाणा अपिजीर्यन्त इति श्रुतिः, शकुनेरिव - पक्षिण इव 'पोसं 'ति अपानं येषां ते तथा, पुरीषोत्सर्गे निर्लेपापाना इत्यर्थः, पृष्ठं चान्तराणि च - पार्श्वदेशः ऊरु च परिणताः - सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मं च - कमलं उत्पलं च-नीलोत्पलं तत्स शो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः - अनुकूलो मनोज्ञ इत्यर्थः वायुवेगःशरीरसमीरणजवो येषां ते तथा, अवदाताः - गौराः स्निग्धाः कालाश्च - श्यामाश्च इति द्वन्द्वः, वैग्रहिक - शरीरानुरूपो उन्नतौ पीनौ कुक्षी-उदरदेशौ येषां ते तथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं ।
प्रमदा अपि च- स्त्रियोऽपि तेषां - मिथुनकराणां भवन्ति सौम्याः - अरौद्रासुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणैर्युक्ता इति कण्ठ्यं, अतिकान्तौअतिकमनीयौ ‘'विसप्पमाण' त्ति विशिष्ठस्वप्रमाणौ अथवा विसर्पन्तावपि सञ्चरन्तावपि मृदूनां मध्ये सुकुमाली कूर्मसंस्थितौ - उन्नतत्वेन कच्छपसंस्थितौ श्लिष्टौ - मनोज्ञी चलनी - पादौ यासां तास्तथा, ऋजवः - सरला मृदवः - कोमलाः पीवराः - उपचिताः सुसंहताः - अविरलाः अङ्गुल्यःपादाङ्गलयो यासां तास्तथा अभ्युन्नता - उन्नता रतिदाः - सुखदाः अथवा रचिता इव रचिताः तलिना:- : - प्रतलाः ताम्ना - आरक्ताः शुचयः - पवित्राः स्निग्धाः - कान्ता नखा यासां तास्तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org