________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ।” मिति, किम्भूता अपीत्याह - सुष्ठुपि च उद्यच्छन्तः - अत्यर्थमपि च प्रयतमानाः, उक्तं च"यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः ।
119 11
४२४
तत्तद्विफलतां याति यथा बीजं महोषरे ॥"
तद्दिवसं - प्रतिदिनमुद्युक्तैः उद्यतैः सद्भिः कर्मणा - व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो - मीलितः सिक्थानां पिण्डस्तस्यापि सञ्चये पराः - प्रधाना ये ते तथा, क्षीणद्रव्यसारा इति व्यक्तं नित्यं सदा अनुवा-अस्थिरा धनानां-गणिमादीनां धान्यानां शाल्यादीनां कोशाआश्रया येषां स्थिरत्वेऽपि तत्परिभोगेन लर्जिताश्च ये ते तथा, रहितं त्यक्तं कामयोः - शब्दरूपयोः भोगानां च-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं -आनन्दो यैस्ते स तथा, परेषां या भोगोपभोग तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा - गवेषणपरा ये ते तथा, तत्र भोगेपभोगयोरयं विशेष:
119 11
“सइ भुज्जइत्ति भोगो सो पुण आहारपुप्फमाइओ । उवभोगोउ पुणो पुण उवभुज्जइ वत्थनिलयाइ ।” त्ति
वराकाः–तपस्विनः अकामिकया अनिच्छ्या विनयन्ति - प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह - दुःखं - असुखं नैव सुखं नैव निर्वृतिं स्वास्थ्यमुपलभन्ते - प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः, परस्य द्रव्येषु ये अविरता भवन्ति त नैव सुखं लभते इति प्रस्तुतं । तदेवं यादशं फलं ददातीत्यभिहितं, अधुनाऽध्यननोपसंहारार्थमाह- 'एसो सो' इत्यादि, सर्वं पूर्ववत् ॥
अधर्मद्वारे – अध्ययनं - ३ - समाप्तम्
मुनि दीपरत्न सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे अधर्मद्वारे तृतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
-: अध्ययनं - ४ - अब्रह्मं :
वृ. अथ तृतीयाध्ययनान्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमेण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मासक्तचित्तो विदघातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादशाद्यर्थपञ्चप्रतिबद्धस्य याध्शमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम्
.मू. (१७) जंबू ! अबंभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उढनरयतिरियतिलोक्कपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविघातदुव्विधायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिगयमणुगयं दुरंतं चउत्थं अधम्मदारं वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म- अकुशलं कर्म तच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च
119 11 “नवि किंचि अणुन्नायं पडिसिद्धं वावि जिनवरिंदेहिं ।
मत्तुं मेहुणमेगं न जं विणा रागदोसेहिं ।।"
चकारः पुनरर्थः, चतुर्थं सूत्रकमापेक्षया सह देवमनुजासुरैर्यो लोकः स तथा तस्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International