________________
द्वारं- 9, अध्ययनं -३,
४२३
नित्यं - सर्वदा उत्त्रता - उद्गतत्रासाः सुन्ना-इतिकर्त्तव्य-तामूढा भयेन संज्ञाभिश्च - आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता - युक्तास्ततः कर्मधारयः, वसन्ति - अध्यासते संसारसागरमिति प्रकृतं, इह च वसेर्निरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं ? -उद्विग्नानां वासस्यवसनस्य वसतिः - स्थानं यः स तथा तं,
तथा यत्र २ ग्रामकुलादौ आयुर्निबध्नान्ति पापकारिणः - चौर्यविधायिनः तत्र तत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्ध, बान्धवजनेनभ्रात्रादिना स्वजनेन - पुत्रादिना मित्रैश्च - सुहृद्भिः परिवर्जिता ये ते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति - जायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो 'त्ति अशुचयोऽश्रुतयो वा कुसंहननाः- सेवार्त्तादिसंहननयुक्ताः कुप्रमाणा- अतिदीर्घा अतिहस्वा वा कुसंस्थिता - हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपाः- कुत्सितवर्णाः, बहुक्रोधमानमायालोभा इति प्रतीतं, बहुमोहा - अतिकामाः अत्यर्थाज्ञाना वा,
धर्मसंज्ञाया- धर्मबुद्धेः सम्यकत्वाच्च ये परिभ्रष्टास्ते तथा, दारिद्रयोपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता ये ते तथा, कृपणारङ्काः परिपिण्डतर्ककाः- परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन - हिङ्गवादिभिरसंस्कृतेन विरसेन - पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तता परस्य सम्बन्धिनं प्रेक्षामाणाः - पश्यन्तः कमित्याह - ऋद्धिः - सम्पत् सत्कारः -पूजा भोजनंअशनं एतेषां ये विशेषाः - प्रकाराः तेषां यः समुदयः - समुदाय ः उदयवर्त्तित्वं वा तस्य यो विधिःविधानमनुष्ठानं स तथा ततश्च निन्दन्तंः - जुगुप्समाना अप्पगन्ति - आत्मानं कृतान्तं च- दैवं तथा परिवदन्तो- निन्दन्तः,
1
कानीत्याह ० ' इह य पुरेकडाई कम्माई पावगाई' ति इहैवमक्षरघटना - पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह - जन्मनि पापकानि-अशुभानि क्वचित्पापकरिण इति पाठः, विमनसो - दीनाः शोकेन दह्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताश्च 'छोभ' त्ति निस्सहायाः क्षोभणीया वा शिल्पं चित्रादि कलाधनुर्वेदादिः समयशास्त्रंजैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातफशुभूताः- शिक्षारक्षणादिवर्जितबलीवर्द्धादिसदृशाः निर्विज्ञानत्वादिसाधम्यात् 'अचियत्त' त्ति अप्रतीत्युत्पादका नित्यं • सदा नीचानि - अधमजनोचितानि कर्माण्युपजीवन्ति-तैर्वृत्तिं कुर्वन्ति ये ते तथा,
लोककुत्सनीया इति प्रतीतं, मोहाद्ये मनोरथा - अभिलाषास्तेषां ये निरासाः-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च - आशाभावप्रचुरा ये ते तथा, आशा - इच्छाविशेष; सैव पाशो-बनधनं तेन प्रतिबद्धा: -संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं - द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च कलोकसारे-लोकप्रधाने भवन्ति - जायन्ते 'अफलवंतगा य'त्ति अफलवन्तः अप्राप्तिका इत्यर्थः, लोकसारता च तयोः प्रतीता, यथाहु:
119 11
“यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च प्रण्डितः ॥” इति, " राज्ये सारं वसुधा वसुन्धरायां पुरं परे सौधम् ।
For Private & Personal Use Only
119 11
Jain Education International
www.jainelibrary.org