________________
४२२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
समाहता-अभिभूताये 'उद्धायमाण'त्ति उत्तिष्ठन्तो विविधचेष्टासुसमुद्रपक्षेमत्स्यादयः संसारपक्षे पुरुषादयः तेषां यः पूरः-समूहस्तस्य ये घोरा-रौद्राः विध्वंसानाः-विनाशलक्षणा अनथाअपायास्तैः बहुलो यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः ‘परिहत्थ'त्ति दक्षा यत्र स तथा अनिभृतानि-अनुपसान्तानि यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टानानि तैः 'खोखुब्भमाण'त्ति भृशं क्षुभ्यमाणोयःसतथा, सन्तापः-एकत्रशोकादिकृतोऽन्यत्र वाडवाग्निकृतोनित्यंयत्रससन्तापनित्यकः, तथा चलन् चपलः चञ्चलश्च यः स तथा, अतिचपल इत्यर्थः,
स च अत्राणाशरणानां पूर्वकृतकर्मसञ्चयानां प्राणिनामिति गम्यं यदुदीर्णं वज्य-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एवधूर्णश्च-भ्रमन्जलसमूहो यत्रस तथा, ततोऽज्ञानादिपदानांकर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानियानिगौरवाणि-अशुभाध्यवसायविशेषास्त एवापहारा-जलचरविशेषाः तैः गृहीताये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षेज्ञानावरणादिबद्धा, समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः ‘कड्डिजमाण'त्ति आकृष्यमाणा नरक एव तलं-पातालं ‘हुत्तं ति तदभिमुखंसन्नाइति-सन्नकाः खिन्ना विषण्णाश्च-शोधितास्तैर्बुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो-दैन्यंशोकः-तदेव प्रकर्षावस्थं मिथ्यात्वं-विपर्यास एतान्येव शैलाः-पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यचिक्खिल्लं-कर्दमस्तेन सुष्टु दुरुत्तारो यःस तथा, ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषुयद् गमनं सैव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुलाच-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्रस तथा तं, हिंसाऽलीकादत्ता-दानमैथुनपरिग्रहणलक्षणायेआरम्भा-८ यापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं-सञ्चितं तदेव गुरुभारस्तेनाक्रान्तायेतेतथातैर्दुर्गाण्येव-व्यसनान्येव योजलौधस्तेन दूरं-अत्यर्थं निबोल्यमानैःनिमज्यमानैः ‘उम्मग्गनिमग्ग'त्ति उन्मग्निमग्नैः- ऊर्ध्वाधोजलगमनानि कुर्वाणैर्दुर्लभं तलंप्रतिष्ठानं यस्य स तथा तं,
शरीरमनोमयानि दुःखानि उत्पिबन्तः-आसादयन्तः सातं च-सुखं असातपरितापनं च-दुःखजनितोपतापः एतन्मयं एतदात्मकं 'उब्बुड्डुनिबुड्डय'ति उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिवअसातपरितापनं निमग्नत्वमिवेति, चतुरन्तं-चतुर्विभागं दिग्भेदगति भेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं-अनन्तं रुद्रं-विस्तीर्णं संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां-संयमाव्यवस्थितानांअविद्यमानमालम्बनं प्रतिष्ठानंच-त्राणकारणं यत्रसतथातं, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयोजीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं, तत्र गाथे॥१॥ "पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केके सत्त जोणिलक्खाओ।
वणपत्तेय १० अनंते १४ दस चोद्दस जोणिलक्खाओ। ॥२॥ विगलिंदिएसुदो दो चउरो चउरो य नारवसुरेसु ।
तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु॥" अनालोकानां--अज्ञानानामन्धकारोयःस तथातं, अनन्तकालं-अपर्यवसितकालं यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org