________________
द्वारं-१, अध्ययन-३,
४२१ वेष्टयन्ति कोशिकारकीट इवात्मानमिति प्रतीतं अष्टकर्मलक्षणैस्तन्तुभिर्यद् धनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यङ्गरामरेषु यद् गमनं तदेव पर्यन्तचक्रवालं-बाह्यपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूतमित्याहजन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच्च तद् गम्भूरदुःखं च तदेव प्रक्षुभितंसञ्चलितं प्रचुर सलिलं यत्र स तथा तं,
संयोगवियोगाएव वीचयः-तरङ्गायत्रस तथा, चिन्ताप्रसङ्गः-चिन्तासातत्यंतदेवप्रसृतंप्रसरो यस्य स तथा वधा-हननानि बन्धाः-संयमनानि तान्येव महान्तो दीर्घतया विपुलाश्च विस्तीर्णतया कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेवअपूजनमेव फेनोयत्र स तथा, तीव्रखिंसनं च-अत्यर्थं निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्चपरिभवविनिपातश्च-पराभिभवसम्पर्कः परुषघर्षणानि च-निष्ठुरवचननिर्भत्सनानि चसमापतितानि-समापन्नानि येभ्यस्तानि तथा तानिचतानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्- वीचिवच्चलत् नित्यं-ध्रुवं मृत्युभयमेव मृत्युश्च भयं चेति ते एव वा तोयपृष्ठंजलोपरितनभागो यत्र स तथा, ततः कर्मधारयः,
अथवाऽपमानेन फेनेन फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एव पातालाः-पातालकलशास्तैः सङ्कुलो यः स तथा तं, भवसहस्राण्येव जलसञ्चयः-तोयसमूहो यत्रसतथातं, पूर्वजननादिजन्यदुःखस्य सलिलतोक्ताइहतुभवनानांजननादिधर्मवतांजलविशेष समुदायतोक्तेतिनपुनरुक्तत्वं, अनन्तं-अक्षयंउद्वेजनकं-उद्वेगकरंअनक्पिारं-विस्तीर्णस्वरूपं महाभयादिविशेषणत्रयमेकार्थं अपरिमिता-अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरत लोकास्तेषांकलुषा-अविशुद्धा यामतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासाच-प्राप्ताकाङ्क्षस्ता एव पातालाः-पातालकलशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्गल्पाश्चेतिद्वन्द्वः,तल्लक्षणस्यविपुलस्योदकरजसः-उदकरेणोर्योरयो-वेगस्तेनान्धकारो यः सतथातं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्यधुदकरजोरयोऽन्धकारमित्यर्थः,
मोह एव महावर्तो मोहमहावतस्तत्र भोगाएव-कामा एव भ्राम्यन्तो-मण्डलेन सञ्चरन्तो गुप्यन्तो- व्याकुलीभवन्तः उद्वलन्त-उच्छलन्तो बहवः-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च- उत्पत्य निपतिताः प्राणिनो यत्र जले तत्तथा, तथा प्रधावितानि-इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्नाः-प्राप्ता येतेपाठान्तरेण प्रबाधिताः-पीडिता ये व्यसनसमापन्ना-व्यसनिनस्तेषां यद् रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहत्थममनोज्ञ वीचिव्याकुलितंभङ्गैः-तरङ्गैः स्फुटन्-विदलन् अनिष्ठितैः कल्लोलैः-महोर्मिभिः सङ्कुलंचजलं-तोयं यत्र सतथातं, महामोहावर्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापनरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः,
प्रमादा-मद्यादयस्त एव बहवश्चण्डा-रौद्रा दुष्टाः-क्षुद्राः श्वापदा-व्याघ्रादयस्तैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org