________________
४१८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
एतान्यपि प्रसिद्धानि एभिर्येप्रहारास्तैः सम्भग्नानि - आमर्द्दतानि मथितानिच - विलोडितानि गात्राणि येषां ते तथा, अष्टादशकर्मकारणात् - अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं
119 11 "चौरः १ चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५ । अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः "
तत्र काणकक्रयी - बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं- हीनं कृत्वा क्रीणाती
त्येवंशीलः,
119 11
॥२॥
“भलनं १ कुशलं २ तर्जा ३, राजभागो ४ ऽवलोकनम् ५ । अमार्गदर्शनं ६ शय्या ७ पदभङ्ग ८ स्तथैव च ।।
विश्रामः ९ पादपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४॥ पद्या १५ ऽग्न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥"
॥३॥
तत्र भलनं - न भेतव्यं भवता अहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैः चौर्यविषयं प्रोत्साहनं १, कुशलं मिलितानां सुखदुःखदितद्वार्त्ताप्रश्नः २, तर्जा-हस्तादिना चौर्यं प्रति प्रेषणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापह्नवः ४, अवलोकनं - हरतां चराणामुपेक्षाबुद्धया दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरथ्कानेन तदज्ञापनं ६ शय्या - शयनीयसमर्पणादि ७ पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८
विश्रामः - स्वगृह एव वासकाद्यनुज्ञा ९ पादपतनं प्रणामादिगौरवं १० आसनं विष्टटरदानं ११ गोपनं चौरापह्नवः १२ खण्डखादनं - खण्डमण्डकादिभक्तप्रयोगः १३ महाराजिकं - लोकप्रसिद्धं १४
पद्याग्न्युदकरज्जूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं - उष्णजलतैलादि तस्य १५ पाकाद्यर्थं चाग्नेः १६ पानाद्यर्थं च शीतोदकस्य १७ चौराहृतचतुश्पदादिबन्धनाद्यर्थं च रज्वाश्च १८,
प्रदानं - वितरणं ज्ञानपूर्वकं चेति सर्वत्र योज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिताङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्गरैरिति प्रकृतं, करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फुटं, 'तंपिय'त्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते 'वध्यपुरुषाः तैर्घाड्यमानाः -- प्रेर्यमाणाः तत्र च - प्राडने खरपरुषः - अत्यर्थकठिनो यः पटहको - डिण्डिमकः तेन प्रचलनार्थं पृष्ठदेशे घट्टिताः - प्रेरिता येते तथा कूटे ग्रहः कूटग्रहस्तेनैव गाढरुटैर्निसृष्टं - अत्यर्थं परामृष्टा - गृहीता ये ते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगं वस्त्रविशेषयुगलं तत्तथा तन्निवसिताः- परिहिता पाठान्तरे वध्याश्च करकुट्योः - हस्तलक्षणकुटीरकयोर्युगं युगलं निवसिताश्च ये ते तथा,
सुरक्तकणवीरैः - कुसुमविशेषैर्गथितं-गुम्फितं विमुकुलं - विकसितं कण्ठे गुण इव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International