SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३९ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ तथाविधपदात्यादिसहायविरहात्, ___ 'अट्ठमभत्तं'ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउब्वियसमुग्घाएण'मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थों जीवव्यापार-विशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-संखेजाई' इत्यादि, दण्ड इव दण्ड:-ऊ धआयतःशरीरबाहल्योजीवप्रदेशकर्मपुद्गलसमूहः, तत्रच विधिधपुद्गलनादत्ते इति दर्शयन्नाह-तद्यथा . रलानां-कर्केतनादीनां सम्बन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्गानां १० अअनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह__यथाबादरान्–असारान् यथासूक्ष्मान्-सारान् ततो वैक्रियं करोति, 'अभयकुमारमनुकंपमाणे'त्तिअनुकम्पयन् हातस्याष्टमोपवासरूपंकष्टं वर्तते इति विकल्पयन्नित्यर्थः, पूर्वभवेपूर्वजन्मनिजनिता-जाता यास्नेहाप्रीतिः-प्रियत्वंन कार्यवशादित्यर्थः बहुमानश्च-गुणानुरागस्ताभ्यां सकाशात् जातः शोकः-चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, -वाचनान्तरे- 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीया विमानवरपुण्डरीकात्, पुण्डरीकताच विमानानांमध्ये उत्तमत्वात् ‘रयणुत्तमाउ'त्ति रलोत्तमात्र चनोत्तमाद्वा धरणीतलगमनाय भूतलप्राप्तये त्वरितः-शीघ्रं संजनितः-उत्पादितो गमनप्रचारो-गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि-दोलायमानानियानि विमलानिकनकस्यप्रतरकाणिच-प्रतरवृत्तरूपाणि आभरणानिच-कर्णपूरे मुकुटंच-मौलिः तेषामुत्कटोयआटोपः-स्फारतातेनदर्शनीयःआदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरलानां पहकर'त्ति निकरस्तेन परिमण्डितोभक्तिभिश्चित्रो विनियुक्तकः-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूपो गुणः-कटिसूत्रं तेन जनितो हर्षो, यस्य स तथा, ___ --प्रेयोलमानाभ्यां दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्-उज्ज्वलीकृतं वदनं-मुखंतस्ययोगुणः-कान्तिलक्षणः तेनजनितं सौम्यं रूपंयस्यस तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते 'वाधुन्नियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिसणिज्जे" तत्र व्याघूर्णितानि-चञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमाने चललोलानिअतिचपलानिललितानि-शोभावन्तिपरलम्मानानि-प्रलम्बमानानि नरमकरतुरगमुखशतेभ्योमुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव-वान्तानीवोद्गीर्णानियानिप्रवरमौक्तिकानि-वरमुक्ताफलानितैर्विराजमानं-शोभमानंयन्मुकुटंतच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy