________________
३९६
शाल्यादिरसता सा नियतिरिति, तथा चोक्तम्
119 11
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
"न हि भवति यन्त्र भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥"
असत्यता चास्य पूर्वद्वाच्या, 'एव' मित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्ति‘ऋद्धिरससातगौरवपराः’ ऋद्धयादिषु गौरवं - आदरः तत्प्रधाना इत्यर्थः, बहवः - प्रभूताः करणालसाः चरणालसाश्चरणधर्म्म प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमत्तमिति भावः, तथा प्ररूपयन्ति धर्म्मविमर्शकेण - धर्म्मविचारणेन 'मोसं' ति मृषा पारमार्थिकधर्म्ममपि स्वबुद्धिदुर्विलसितेनाधर्म्म स्थापयन्ति, एतद्विपर्ययं चेति भावः,
इह च संसारमोचकादयो निदर्शनमिति, तथा अपरे केचन अधर्म्मतः - अधर्म्ममङ्गीकृत्य राजदुष्टं नृपविरुद्धं अभिमरोऽयमित्यादिकं अभ्याख्यानं - परस्याभिमुखं दूषणवचनं भणन्ति - ब्रुवते अलीकं असत्यं, अभ्याख्यानमेव दर्शयितुमाह- 'चोर' इति भणन्तीति प्रकृतं, कं प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एवमेव - चौरादिकं प्रयोजनं चिनैव, कथम्भूतं पुरुषं प्रतीत्याह - उदासीनंडामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्तिपांसयन्ति शीलकलितं-शुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतरुपक इति - दुर्विनीतः,
अन्ये- केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपघ्नन्तः - विध्वंसयन्तः तट्टतिकीत्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते - सुहृद्दारान् भजते, अयमपि न केवलमसौ लुप्तधर्म्मो - विगतधर्म्म इति 'इमोवि' त्ति अयमपि, विश्रम्भघातकः पापकर्म्मकारीति च व्यक्तं, अकर्म्माकारी- खभूमिकानुचितकर्म्मकारी अगम्यगामी- भगिन्याद्यभिगन्ता अयं दुरात्मा- दुष्टात्मा 'बहुसु य पावगेसु' त्ति बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति मत्सरिण इति व्यक्तं, भद्रकेवा- निर्दोष तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः - उपकारः कीर्त्तिः प्रसिद्दिः स्नेहः - प्रीतिः परलोको - जन्मान्तरं एतेषु निष्पिपासा - निराकाङ्क्ष ये ते तथा एवं उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन - अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं एवं कर्म बन्धनेन प्रतीतेन मुखमेव अरिः - शत्रुरनर्थकारित्वाद्येषां ते मुखारयः असमीक्षितप्रलापिनः - अपर्यालोचितानर्थकवादिनः निक्षेपान् - न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे - द्रव्ये ग्रथितगृद्धाःअत्यन्तगृद्धिमन्तः, तथा अभियुञ्जतेच योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्व्वन्ति कूटसाक्षित्वमिति व्यक्तं, तथा असत्याः - जीवानामहितकारिणः अर्थालीकंच - द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च-कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं - बादरं स्वस्य जिह्वाच्छेदाद्यनर्थकरं परेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते,
इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह - अधरगतिगमनं - अधोयगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः - कारणं यस्य तत्तथा तच्च मायया निगुणं च - निहतगुणं निपुणं च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International