________________
३९७
द्वार-१, अध्ययनं-२, वाइति समासः, तत्र जातिकूले-मातापितृपक्षौतद्धेतुकंचप्रायोऽलीकंसम्भवति, यतोजात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-स्वभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते ?-चपला मनश्चापल्यादीना, किम्भूतं तत्? -पिशुनं-परदोषाविष्करणरूपंपरमार्थभेदकं मोक्षप्रतिघातकं 'असंतगं'ति असत्कमविद्य-मानार्थमसत्यमित्यर्थः असत्त्वकं वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारकं-पुरुषार्थोपघातकंपापकर्ममूलं-क्लिष्टज्ञानावरणादिबीजंदुष्टं असम्यक् दृष्ट-दर्शनं यत्र तहुर्दष्टंदुष्टं श्रुतं-श्रवणंयत्रतहुःश्रुतंनास्तिमुणनितं-ज्ञानं यत्रतदमुणितं निर्लज्जं-लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधबन्धपरिक्लेशबहुलं' तत्र वधो-यष्ठयादिताडनं बन्धः-संयमनं परिक्लेशः-उपतापस्ते बहुलाः-प्रचुरा यत्र तत्तथा,
__ भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्कलेशवद्यत्तत्तथा, भणन्ति, के ?-अलीको योऽभिसन्धिःअभिप्रायस्तत्र निविष्टाअलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेतिव्यक्तंसद्गुणनाशकाश्चतदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताः-सम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? सावधं-गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा,
अत एव साधुगर्हणीयं अधर्मजननं भणन्तीति पदत्रयं प्रतीतं, कथम्भूता इत्याह ? - अनधिगतपुण्यपापाः-अवेदितपुण्यपापकर्महतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया-व्यापारस्तत्प्रवर्तकाः, तत्राधिकरणक्रियाद्विविधा-निर्वर्तनाधिकरणक्रिया संयोजनाधिकरणक्रियाच, तत्राद्याखगादीनां तन्मुष्टयादीनांच निवर्तनलक्षणा, द्वितीया तुतेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुग्र्गतौ यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमईउपमर्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो-भाषमाणाः,
एतदेवाह-महिषान् शूकरांश्चप्रतीतान् साधयन्ति-प्रतिपादयन्तिघातकानां तद्धिंसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा-मृगबन्धनं सा येषामस्ति तेवागुरिणः, तित्तरवर्तकलावकांश्च कपिञ्जलकपोतकांच-पक्षिविशेषान्साधयन्ति शकुनेन शयेनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां, साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च-जलचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषांतेमात्स्यिकास्तेषां, ‘संखंक'त्ति शङ्खाः प्रतीताः अङ्काश्च-रूढिगम्याः अतस्तान् क्षुल्लकांश्च-कपकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां-मार्गयतां तद्गवेषिणां अजगरगोनसमण्डलिदींकरमुकुलिनश्चसाधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वीकराः-फणभृतः मुकुलिनःतदितरे, व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वन-बालवीणंति प्रतिपादतं, वाचनान्तरे 'वायलियाणं ति दृश्यते,
___ तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशर टकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः-कृकलाशाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org